________________
26
EXTRACTS FROM MSS.
No. 716.
नैषधस्य टीका-लक्ष्मणः। आ०-सर्गस्थित्युदितं सुवर्णघटितप्रासादलंकारिता
मापन्नं कमनीयवृत्तरचितश्लोकं प्रकांडाकृतिम् । कल्पोद्बोधकृदन्वयांचितपदं सद्वर्णनीयस्थिति श्रीवल्मीकभुवः प्रबंधमिव तं श्रीरामभद्रं भजे ॥ १ ॥ श्रीपंक्तिरथपादाब्जरोलंबीकृतविग्रहम् । पितरं रामकृष्णाख्यं नौमि विद्याविशारदम् ।। २॥ स्पर्धामग्निनिवेशादुमया प्राप्तामुमासमाख्यां ताम् | धुनदीनिर्मलचित्तां मातरमेकां सती सदा वैदे ।। ३॥ आ पूर्वाचलमा च पश्चिमगिरेरुर्वीभृतां शेखर. प्रोताधिष्ठितप्रांतमद्भुतवपुः श्रीलक्ष्मणानांचितम् | वंदे विष्णुपदाश्रयं दिनकर स्वभ्रातरं सर्वदा सत्कर्मप्रतिपादनार्थमुदितं प्रक्षिप्तदोषागमम् ॥ ४ ॥ गणेशाय नमस्कृत्य पितृभ्यामग्रजन्मने । करोमि नैषधव्याख्यामन्यादृष्टपथानुगाम् ॥ ५ ।। संति यद्यपि सद्व्याख्या बुधानां नैषधे शतम् । तथाप्यमुष्या वैदग्धी केचिद्विज्ञातुमीशते ॥ ६ ॥
सर्गः १.
No. 725. पद्यतरंगिणी-सटीका-व्रजनाथः। आ°टी०-गुरुचरणसरोजद्वंद्वमाधाय चित्ते
किमपि तदनुकंपालब्धबुद्धिप्रभावः ।