________________
16
EXTRACTS FROM MSS.
तस्याहं चरणानुपासिषि सदा श्रीमत्तपागच्छप
क्षोणीविश्रुतसोमतुंदरगुरोधारित्रिचूडामणे(:) ॥ ८ ॥ अपि च ।
मारिर्येन निवारिता सुरकृता संसूत्र्य शांतिस्तवं स श्रीमान्मुनिसुंदराभिधगुरुर्दीक्षागुरुर्मेऽभवत् । यस्य श्यामसरस्वतीति बिरुदं विख्यातमुर्वीतले गुरू श्रीजयचंद्र सुरिगुरुरप्याधात्मसत्तिं स मे ।। ९ ॥ सांप्रतं तु जयंति श्रीरत्न शेखरसरयः । नानाग्रंथकृतस्तेपि पूर्वाचार्यानुकारिणः ॥ १० ॥ एतानाचार्यहर्यक्षान्प्रत्यक्षानिव गौतमान् ।
वीतमायं स्तुवे स्फीतश्रीतपागच्छनायकान् ॥ ११ ।। किंच।
हैमव्याकरणं महार्णवमिव व्यालोद्य मंजूषिकासंपूर्तिप्रमितान्यऽभून्यधिनवं सन्न्यायरत्नानि यत् । तत्सर्व यदवाप्तबोधकणिकासिद्धौषधीजंभितं विद्यासिद्धमिमं हृदि प्रणिदधे चारित्ररत्नं गुरुम् ॥ १२॥ चिन्मयानां मयामीषामृषीणां सुप्रसादतः । हेमहंसाभिधानेन वाचनाचार्यतायुजा ।। १३ ॥ श्रीमद्विक्रमवत्सरे तिथितिथौ १५१५ शुक्लद्वितीयातिथौ पूर्वाह्ने मृगलांछने मृगशिरःशृंगायशृंगारिणि । शुक्रस्याहनि शुक्रमासि नगरे श्रीसागरेऽहम्मदावादे निर्मितपूर्तिरेष जयताद्रंथः सुधीवल्लभः ॥ १४ ॥ इति श्रीतपागच्छ पुरंदरश्रीसोमसुंदरसूरिस्वदीक्षागुरुश्रीमुनिसुंदरसूरिश्रीजयचंद्रसूरिप्रमुखश्रीगुरुसांप्रतविजयमानश्रीगच्छनायकपरमगु