________________
EXTRACTS FROM MANUSCRIPT3
४५ विशेषस्यांतरेण समर्थनमांतरन्यासः ॥ ७६ सवा-संभवोसंभवोव्याप्तिः ॥ ७७ साधनात्साध्यप्रतीतिरनुमानम् ।। ५८ परप्रत्यायिकं लिंगं हेतुः॥ ७९ गतनिष्ठाप्रतिपादनमापत्तिः ॥ ८० दंडिपापिकया पातनमर्थापत्तिः ॥ ८१ असंभाव्यहेतुफलप्रेषणं विधिः ॥ ८२ अन्यनिषेधार्थोपि विधिनियमः॥ ८३ प्राप्तस्य परिसंख्या ॥ ८४ प्रत्यापत्तिः प्रतिप्रसवः ॥ ८५ नानाफलप्रयुक्तः प्रयत्नस्तंत्रम् ।। ८६ प्रसंगादन्यार्थः प्रसंगः ॥ ८. विरुद्धयोस्तुल्यत्वे पाक्षिकत्वं विकल्पः ।। ८८ धर्मयोगपद्यमन्यस्यापितत्करत्वं समुदायः॥ ८९ विनिमयः परिवृत्तिः॥ ९० क्रमेणैकमनेकतान्यथा वा पर्यायः ॥ ९१ आरोहावरोहादिमः [क्रमः] ॥ ९२ रूपधर्माभ्यामाधिक्यं वर्द्धमानकम् ।। ९३ विपर्ययो (व) रोहः ॥ ९४ संभावनयान्यथावातिशयोतिशयः॥ ९५ उत्तरोत्तरस्य पूर्वपूर्वानुबंधित्वविपर्ययो वा शृंखला ॥ ९६ अन्यधर्मस्वीकारस्तद्गुणः ॥ ९७ धर्मसाम्यागुदप्रतीतिमि (मी) लितम् ॥ ९८ अस्यां कुतश्चिद्विवेकोविवेकः ॥ ९९ अनुभूतस्य प्रार्थ [प्रार्थ्य] स्यांतरोपलब्धौ परभागः॥ १०० निरूढस्य प्रतिभेद उद्भेदः ॥ १०१ गूढमा [ढा] कांक्षोपनिबद्धो गूढम् ।। १०२ सूक्ष्मार्थवचनं सूक्ष्मम् ॥ १०३ उद्भेदप्रच्छादन [नं] व्याजोक्तिः ॥ १०४ अन्यथा संभावितयोः शब्दार्थयोरन्यथा योजनं वक्रोक्तिः ॥ १०५ सम्यग्स्वभावोक्तिः॥ १०६ विप्रकृष्टस्य प्रत्यक्षायमाणत्वं भाविकम् ॥ १०७ उदात्तचरितांगमु दात्तम् ।।