________________
( 106 )
सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे । उत्पादका न बहवः कवयः शरभा इव ॥ ६ अन्यवर्णपरावृत्त्या बन्धचिह्ननिगृहनैः । अनाख्यातः सतां मध्ये कविश्चौरो विभाव्यते ॥ ७ श्लेषप्रायमुदीच्येषु प्रतीच्येष्वर्थमात्रकं । उत्प्रेक्षा दाक्षिणात्येषु गौडेष्वक्षरडंबरः ॥ ८ नवोर्थो जातिरग्राम्या श्लेषोक्लिष्ठः स्फुटो रसः। विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करम् ॥९ कि कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी । कथेव भारती यस्य न प्राप्नोति दिगन्तरम् ।। १० उच्छासान्तेप्यखिन्नास्ते येषां वक्त्रे सरस्वती । कथर्माख्यायिकाकारा न ते वन्द्याः कवीश्वराः ।। ११ कवीनामगलदो नूनं वासवदत्तया। शक्त्येव पाण्डपुत्राणां गतया कर्णगोचरम् ॥ १२ पदबन्धोज्ज्वलो होरी कृतवर्णक्रमास्थतिः। भहारहरिचन्द्रस्य गद्यबन्धो नृपायते ॥ १३ अविनाशिनमग्राम्यमकरोत्सातवाहनः । विशुद्ध जातिभिः कोशं रत्नैरिव सुभाषितैः ॥ १४ कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । सागरस्य परं पारं कपिसेनेव सेतुना ॥ १५ सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः । सपताकैर्यशो लेभे भासो देवकुलैरिव ॥ १६ निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु । प्रीतिर्मधुरसाासु मञ्जरीष्विव जायते ।। १७ समुद्दीपितकन्दर्पा कृतगौरीप्रसाधना। हरलीलेव नो कस्य विस्मयाय बृहत्कथा ॥ १८ आढयराजकृतोत्साहैर्हृदयस्यैः स्मृतैरपि ।
अग्राम्या. A writes अग्रास्या. So also below v. 14. So before it writes incorrectly उदीश्यषु. and प्रतीश्येषु. °न प्राप्नोति दिगन्तरं. ० न व्यामोति जगत्रयं. Com. 10 कथमाख्यायिककारा : &c. The Calcutta Edition omits all that precedes this line and prefixes the interpolated verse चतुर्मुखमुखाम्भोजवनहंसवधूर्मम मानसे रमतां दीर्घ सर्वशुक्ला सरस्वती. "पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थिति:- Cale. Ed. पदबद्धोज्ज्वतोहारिकृतकण्ठकमस्थिातः, अविनाशिनम् Cale. Ed. कुविनाशनम्. "सातवाहनः Hal's first MS. शालिवाहनः: 11 सूत्र, A सूत, मूमिकै; A भूषिक:. "भासो A भासा " सार्दासु A सान्द्रासु. " कृतोत्साहै :. Calc. Rd. कृतोच्छासै::