________________
औचित्यं श्लाघ्यते तत्र कविताजीवितोपमम् || कवयस्तदजानंत (:) कथं स्यु (:) कीर्तिभाजनम् ॥ ३ ॥ छंदसां निर्णयं कृत्वालंकाराणां निरूपणम् ॥ अक्लिष्टपदसंबंधात् काव्यं कुर्वीत कोविदः || ४ || यान्येव दूषणान्याहुस्तानि स्युः भूषणान्यपि ॥ समासोयं कवींद्राणां विज्ञेयः कवितैषिणा || ५ ॥ प्रतिभाविस्फुरद्बुद्धिरनुप्रासपरं पदम् ॥ बनीयात् प्रथमं रूपे रमते मानसे यतः || ६॥
तत्र प्रसत्तिगुणभाब्धिकाव्ये प्रयत्नो विधेयः ॥
न पुनर्यमकचित्रादौ तथा लोलटः यमकानुलोमतः ॥ ७ ॥ तदितरवक्रादिभेदो इति रसविरोधिन्यः ||
अभिमानमात्रमेत हरिकादिप्रवाहो (यम्) || ८ | • तथाह माघकाव्ये
श्रियःपतिः 'हरिः । १ ।
तथा पुरंदरादीनि स्थानानि वर्णितुं शिक्षणीयानि तथा व्यर्थान्यपि पदानि छंदः सिद्धये भवतीति कथं पदयोर्द्वयोः सलावण्यता विधेया ।
यद्भामहः ।
नाकवित्वमधर्माय मृतये दंडनाय वा ||
कुकवित्वं पुनः साक्षान्यून माहुर्मनीषिणः १ ॥
तथा रूढयौगिकमिश्राणां नाम्नां वक्तव्यता ज्ञेया । तथा सर्व सर्वस्योपमा भ्वादिभिरुत्प्रेक्षा परान्योक्तीनां तु वैपरीत्येन वा एवान्योक्तयः तद्भावसंबंधतदाधारतत्संग्याधारादिभिः प्रयुक्तश्लेषचतुर्द्धा शब्दानेकार्थभूः | १ | शब्दखंडनभूः | २ | गुणसाम्यभूः । ३ । क्रियासामान्यभूः । ४ । क्रमेणोदाहृतः ।
व्योमवन्नगरं भाति लसत्कन्या मनोहरम् ||
( 79 )