________________
TO H. H. THE MAHARANA,OF OODEYPORE.
107
॥ रामकल्पद्रुमाख्यनिबन्धः॥
श्रीगणेशाय नमः पणौमि जानकीजानि पितरं कमलाकरम् । अंबामरुंधतीशीला लक्ष्मी लक्षणशालिनीम् ।। १॥ जगद्गुरोः श्रीकमलाकरस्य दिगंतविख्यातनिबंधकीत्तैः।
अनंतसंज्ञस्तु तदात्मजोसौ श्रीरामकल्पद्रुममातनोति ॥ २॥ इति श्रीमत्पदवाक्यप्रमाणप [पा] रावारपारीणश्रीमन्नारायणभट्टसूरि [स] नुश्रीरामकृष्णभट्टसुतश्रीमज्जगद्गुरुकमलाकरभट्टात्मजानंतभट्टकृते श्रीरामकल्पदुमाख्ये निबंधे समयकांडः समाप्तः ॥ पत्र १०१ ॥
प्रणम्य जानकीजानि पितरं कमलाकरम् । अनन्तसंज्ञस्तनुते दानकांडं यथामति ॥ १॥ अनंतविबुधेनात्र कमलाकरसूनुना ।। योत्र श्रमः कृतस्तेन प्रीयतां रघुनंदनः॥ समस्तविद्वत्परितापहारी समस्तसंदेहनिरासकारी॥ श्रीरामकल्पद्रुमनामधारी निबंध एषोस्तु जंगमचारी ।। त वेदांतशास्त्रे फणिपतिभणितं [ते] प्रौढतंत्रे स्वतंत्रः शिक्षादक्षः खलानां गुरुवरवचसा भूल त]भावोपदेष्टा ।। भाट्टे भट्टोपमानो विदितबहुमतः संमतः सज्जनानां श्रौते स्माते च वेदे विजयति नितरां श्रीगरीबाभिधानः ।। तत्कृतं यन्न केनापि तद्दत्तं यत्न केनचित् ।। संपादिता च सा कीर्तिर्या च केनापि नार्जिता ॥ सोयं जनं धर्मकथाविहीनं पापे रतं वीक्ष्य दयार्द्रचेताः ।।
संपूज्य सूनं [y] कमलाकरस्याप्यचीकरत्तेन निबंधमेनम् ॥ इति श्रीमन्महामंडलाखंडलचक्रवर्तिचूडामणिराजाधिराजश्रीमहाराणाराजसिंहश्री दिवाणजीपुरोहित श्री श्री श्री गरीबदास पुरोहितमहाराज प्रेरितानंतभट्टविरचितश्रीरामकल्पद्रुमाख्यमहानिबंधातर्गतं सप्तमं दानकांडं समाप्तम् ।। पत्र ॥ १४० ॥
प्रणम्य जा०...."उत्सर्गाख्यं यथामति ॥ १ ॥ ब्राह्मणभोजनं ईश्वरार्पणमिति शुभमस्तु । इति श्रीमन्महीमंडलाखंडलचक्रवर्तिचूडामणिश्रीराजसिंहमहाराणासार्वभौमपुरोहित श्रीगरीबदासमेरितानंतभट्ट विरचिते श्रीरामकल्पद्रुमांतर्गते उत्सर्गकांडे तडोत्सर्गविधिः समाप्तः॥ ॥पत्र. ।। २५ ।।