SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 90 EXTRACTS FROM MANUSCRIPTS टी० आ० इदमध्ययनं परमपदप्राप्तिबीजभूतत्वात् श्रेयोद्भुतं अतस्तदारंभे ग्रंथकुन्मंगलरूपसामायिकाद्यावश्यकार्थकथन १ भावस्त्वमंगल [ भावमलं ] कारणद्रव्यमंगलभूतगजादि १४ स्वमोच्चारव्याजसर्वतीर्थ कृद्गुणस्मरण २ वर्तमानतीर्थाधिपतिश्रीवीरनमस्करण ३ रूपमंगलत्रयमाह || सावज्जेति । अथवा षडावश्यकयुतस्यैवप्रायश्चतुःशरणप्रतिपत्त्यादियोग्यता स्यात् अतः प्रथमं षडावश्यकमाह । सावज्जेत्यादि । सहावद्येन पापेन वर्त्तते इति सावद्याः योगा मनोवाक्कायव्यापारास्तेषांविरतिर्निवृत्तिः सावद्ययोगविरतिः सामायिकेन क्रियते इत्यध्याहारः उत्कीर्त्तनं जिनगुणानामुत्कीर्त्तना चतुर्विंशतिस्तवेन क्रियते गुणा ज्ञानदर्शनचारित्राद्याः ते विद्यंते येषां ते गुणवंतो गुरवस्तेषां प्रतिपत्तिर्भक्तिः गुणवत्प्रतिपत्तिः सा वंदनकेन क्रियते स्खलितं आत्मनोतिचारापादनं तस्य निंदनं निंदना न पुनः करिष्यामीत्यभ्युपगमनं सा प्रतिक्रमणेन क्रियते व्रणस्याती चाररूपभावत्रणस्य चिकित्सा प्रतिकाररूपा सा कायोत्सर्गेण क्रियते गुणा विरत्यादयो मूलगुणोत्तरगुणरूपा तेषां धारणं धारणा सा प्रत्याख्यानेन क्रियते चैवेति षण्णामपि समुच्चये ॥ १ ॥ मू० च० इय जीव पमायमहारिवीर भदं तमेवज्झयणम् ॥ झा मुतिसंझमवंझकारणं निव्वुइसुहाणम् || ६३ ॥ इति चतुःशरणप्रकीर्णकम् ॥ टी० च० अथ प्रस्तुताध्ययनोपसंहारमाह । इयजीव० इति उक्तप्रकारेण हेजीवात्मन् एतदध्ययनं ध्याय स्मर त्रिसंध्यं संध्यात्रये इति संबंधः कथंभूतं पमायमहारिवीरं प्रमादा एव महतोरयः शत्रवश्चतुर्दशपूर्वधरादीनामपि निगोदादिदुर्गतिपातहेतुत्वात् प्रमादस्य तेषां प्रमादमहारीणां विनाशाय वीरवद्दीरं सुभटकल्पमित्यर्थः अनुस्वारलोपः प्राकृतत्वात् पुनः कथंभूतं भद्रमंते यस्मात्तद् भद्रांतं मोक्षमापकमित्यर्थः अथवा हे वीर हे भद्रेति संबोधनपदद्वयं जीवस्योत्साहवृद्धिहेतु अंतमिति जीवितांतं यावदेवैतदध्ययनं ध्यायेत्यर्थः पुनः किंभूतं अवंध्यकारणं सफलकारणं केषां निवृत्तिर्मोक्षस्तत्सुखानामिति जीय इति पाठे बितप्रमादमहारि (:) योसौ वीरभद्रसाधुः वीरसत्कचतुर्दशसहस्रसाधुमध्यवर्ती तस्येदं जित० तदेतदध्ययनं ध्यायेत्यादि । एवं शास्त्रकर्त्तुः समासगर्भमभिधानमुक्तं अस्य चाध्ययनस्य वीरभद्रसाधुकृतत्वज्ञापनेन यस्य जिनस्य यावंत: साधवः प्रत्येकबुद्धा अपि एव प्रकीर्णकान्यपि तावंति भवतीति ज्ञापितं भवतीति गाथार्थः ॥ इति चतुः शरणप्रकीर्णकावचूरिः सम्मत्तं शास्त्रं ॥ संवत् १६४५ वर्षे भाद्रपद मासे शुक्लपक्षे नवम्यां तिथौ रविवारे ॥ मु । साधुविजय ॥
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy