________________
त्रिलोकसारे
अग्गि । अग्निभयाद्धावंतः मन्यमानाः शीतलमिति पानीयं ते नूतननारका वैतरणी प्रविश्य क्षारोदकदग्धसर्वांगाः संतः ॥ १८८ ॥
अथ ते पुनः किं कुर्वतीत्यत आह;उहिय वेगेण पुणो असिपत्तवणं पयांति छायेत्ति । कुंतासिसत्तिजटिहिं छिज्जते वादपडिदेहिं ॥ १८९॥
उत्थाय वेगेन पुनः असिपत्रवनं प्रयांति छायति । कुंतासिशक्तियष्टिभिश्छिद्यते वातपतितैः ॥ १८९ ॥ उहिय । तत्रेति शेषः । छायामात्रमेवार्थः ॥ १८९ ॥
अथ तेषां बहिदुःखसाधनमाह;लोहोदयभरिदाओ कुंभीओ तत्तबहुकडाहा य । संतत्तलोहफासा भू सूईसदुलाइण्णा ॥ १९० ॥
लोहोदकभरिताः कुंभ्यः तप्तबहुकटाहाश्च । संतप्तलोहस्पर्शा भू: सूचीशाडुलाकीर्णा ॥ १९० ॥ लोहो । छायामात्रमेवार्थः ॥ १९ ॥
अथ क्षेत्रस्पर्शजदुःखं दृष्टांतमुखेनाह;विच्छि यसहस्सवेयणसमधियदुक्खं धरित्तिफासादो। कुक्खक्खिसीसरोगगछुधतिसभयवेयणा तिव्वा॥१९१॥
वृश्चिकसहस्रवेदनासमधिकदुःखं धरित्रीस्पर्शात् ।
कुक्ष्यक्षिशीर्षरोगगक्षुधातृषाभयवेदना तीव्राः ॥ १९१ ॥ विच्छिय । स्यादिति शेषः । छायामात्रमेवार्थः ॥ १९१ ॥
अथ ते किं भुंजते इत्यत आह;सादिकुहिदातिगंधं सणिमय्यं मट्टियं विभुंजंति । घम्मभवा वंसादिसु असंखगुणिदासुहं तत्तो ॥ १९२ ॥