________________
- लोकसामान्याधिकारः। ५९ अथ लोकारवायुबाहुल्यं द्योतयन्नाह;कोसाणं दुगमेकं देसूणेकं च लोयसिहरम्मि । ऊणधणूण पमाणं पणुवीसज्झहियचारिसयं ॥ १२६ ॥ कोशानां द्विकमेकं देशोनैकं च लोकशिखरे । ऊनधनुषां प्रमाणं पंचविंशाधिकचतुःशतम् ॥ १२६ ॥ कोसाणं । कोशानां द्विकमेकं देशोनै च लोकशिखरे ऊनधनुषां प्रमाणं । किमित्युक्ते पंचविंशत्यधिकचतुःशतमित्युक्तम् ॥ १२६ ॥
अथ लोकाधस्तनवायुक्षेत्रफलमानयन्नाह;लोयतले वादतये बाहल्लं सद्विजोयणसहस्सं । सेढिभुजकोडिगुणिदं किंचूणं वाउखेत्तफलं ॥१२७ ॥
लोकतले वातत्रये बाहुल्यं षष्ठियोजनसहस्रम् ।
श्रेणिभुनकोटिगुणितं किंचिदूनं वायुक्षेत्रफलम् ॥ १२७ ।। __ लोयतले । लोकतले वातत्रये बाहुल्यं षष्ठियोजनसहस्रं, श्रेणिभुजकोटिगुणितं पूर्वापरेण समचतुरस्रत्वाभावात् किंचिन्न्यूनवेधं वायुक्षेत्रफलं स्यात्.॥ १२७ ॥
अथ तदुपरि वायुक्षेत्रफलानयनमाह;किंचूणरज्जुवासो जगसेढीदीहरं हवे वेहो। जोयणसट्ठिसहस्सं सत्तमखिदिपुव्वअवरे य ॥ १२८॥ किंचिदूनरज्जव्यासः जगच्छेणिदैर्ध्य भवेत् वेधः । योजनषष्टिसहस्रं सप्तमक्षितिपूर्वापरे च ॥ १२८ ॥ किंचूण । किंचिन्न्यूनरज्जुव्यासः जगच्छ्रेणिदैर्ध्य भवेत् । वेधः योज