________________
४०२
त्रिलोकसारे
वंदण । तानि चैत्यालयानि पुनर्वदनाभिषेकनर्तनसंगीतावलोकनमंडपैयुतानि क्रीडनगुणनगृहैश्च विशालवरपट्टशालैश्च युतानि भवंति ॥१००९॥
सांप्रतं प्रथमद्वितीयशालयोरंतरालस्वरूपमाह;- . सिंहगयवसहगरुडसिहिंदिणहंसारविंदचकधया । पुह अट्ठसया चउदिसमक्कक्के अट्ठसय खुल्ला ॥ १०१०॥ सिंहगजवृषभगरुडशिखींद्विनहंसारविंदचक्रध्वजाः । पृथक् अष्टशतानि चतुर्दिशमेकैकस्मिन् अष्टशतं क्षुल्लाः ॥१०१०॥ सिंह । सिंहगजवृषभगरुडशिखविनहंसारविंदचक्रध्वजाः पृथक् पृथगष्टोत्तरशतानि । एवं प्रत्येकं चतुर्दिक्षु भवंति । अत्रैकैकस्मिन् मुख्यध्वजे अष्टोत्तरशतक्षुल्लकध्वजा भवंति ॥ १०१० ॥
द्वितीयप्राकारप्राकारबाह्ययोरंतरालस्वरूपं गाथात्रयेणाह;चउवणमसोयसत्तच्छदचंपयचूदमेत्थ कप्पतरू । कणयमयकुसुमसोहा मरगयमयविविह पत्तड्डा॥१०११॥
चतुर्वनमशोकसप्तच्छदचंपकचूतमत्र कल्पतरवः । . कनकमयकुसुमशोभाः मरकतमयविविधपत्राढ्याः ॥ १०११ ॥
चउ । अशोकसप्तच्छदचंपकचूतमयानि चत्वारि वनानि संति । अत्र पुनः कनकमयकुसुमशोभिताः मरकतमयविविधपत्राढ्याः कल्पतरवश्च संति ॥ १०११॥ वेलुरियफला विदुम विसालसाहा दसप्पयारा ते । पल्लंकपाडिहेरग चउदिसमूलगय जिणपडिमा॥१०१२॥
वैडूर्यफला विद्रुमविशालशाखाः दशप्रकारास्ते । पल्यंकप्रातिहार्यगाः चतुर्दिशामूलगता जिनप्रतिमाः ।। १०१२ ।।
वेलुरिय। ते च पुनः वैडूर्यफला विद्रुमविशालशाखाः दशप्रकाराः स्युः । तत्रैव वने पुनः पल्यंकप्रतिहार्ययुक्तचतुर्दिमूलगतजिनप्रतिमाः ॥१०१२॥