SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ नरंतिर्यग्लोकाधिकारः। vvvvvvvvvvvvvvvvvvvvvvvve षोडशसहस्राणि संति १६०००।१६००० तत्रैव पुनः षोडशसहस्राणि १६००० धूपघटाश्च संति ॥ ९९२ ॥ महरझणझणणिणादा मोत्तियमणिणिम्मिया सकिंकिणिया। बहुविहघंटाजाला रइदा सोहंति तम्मज्झे ९९३ मधुरझनझननिनादाः मौक्तिकमणिनिर्मिताः सर्किकिणिकाः । बहुविधघंटाजाला रचिताः शोभंते तन्मध्ये ॥ ९९३ ॥ महु । तन्मंडपस्यैव मध्ये पुनमधुरझणझणनिनादा मौक्तिकमणिनिर्मिता:सकिंकिणिकाः बहुविधघंटाजाला अनेकरचनायुक्ताः शोभते ॥९९३ ॥ तदसतेः क्षुल्लकद्वारादिस्वरूपमाह;वसईमज्झगदक्खिणउत्तरतणुदारगे तदद्धं तु । तप्पुढे मणिकंचणमालडचउवीसगसहस्सं ॥९९४॥ वसतिमध्यगदक्षिणोत्तरतनुद्वारे तदर्धे तु । तत्पृष्ठे मणिकांचनमाला अष्टचतुर्विशकसहस्राणि ॥ ९९४ ॥ वसई । तद्वसतेर्दक्षिणोत्तरपार्श्वमध्यगतक्षुल्लकद्वारे मुख्यद्वारोक्तविधानं सर्वमर्धाधं भवति । तद्वसतेः पृष्ठभागे पुनर्मणिमालाः कांचनमालाश्चाष्ट-. सहस्राणि ८००० चतुर्विंशतिसहस्राणि २४००० च स्युः ॥ ९९४ ॥ उक्तस्य मुखमंडपादेर्व्यासादिकं ततः पुरस्तात् स्थितानां सर्वेषां स्वरूपं गाथापंचदशकेनाह;जिणगिहवासायामो तप्पुरदो सोलसोच्छिओ होदि। मुहमंडओ तदग्गे पिक्खण चउरस्स मंडवओ ॥९९५॥ जिनगृहव्यासायामः तत्पुरतः षोडशोच्छ्रितो भवति । मुखमंडपः तदने प्रेक्षणः चतुरस्रः मंडपः ॥ ९९५ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy