________________
३९०
- त्रिलोकसारे
अनंतरं तासां वापीनां स्वरूपमाह;सव्वे समचउरस्सा टंकुक्किण्णा सहस्समोमाढा । वेदियचउवण्णजुदा जलयरउम्मुक्कजलपुण्णा ॥९७१॥ सर्वाः समचतुरस्त्राः टंकोत्ीणाः सहस्रमवगाधाः । वेदिकाचतुर्वर्णयुता जलचरोन्मुक्तजलपूर्णाः ।। ९७१ ॥
सव्वे । ताः सर्वाः समचतुरस्राष्टंकोत्कीर्णाः सहस्रयोजनावगाधाः वेदिकाभिश्चतुर्वनैश्च युक्ताः जलचरोन्मुक्तजलपूर्णाः स्युः ॥ ९७१ ॥
अथ तद्वापीनां वनस्वरूपमाह;वावीणं पुन्वादिसु असोयसत्तच्छदं च चंपवणं । चूदवणं च कमेण य सगवावीदीहदलवासा ॥ ९७२ ॥ वापीनां पूर्वदिषु अशोकसप्तच्छदं च चंपवनं । चूतवनं च क्रमेण च स्वकवापीदीर्घदलव्यासानि ॥ ९७२ ॥ वावीणं । तद्वापीनां पूर्वादिदिक्षु यथाक्रमेण स्वकीयस्वकीयवापीदीर्षाणि १ ल. तद्दलव्यासानि ५०००० अशोकसप्तच्छदचंपकचूतवनानि भवंति ॥ ९७२॥
एवमंजनादिगिरींद्रेषु प्रत्येकमेकैकं चैत्यालयं प्रतिपादयन् तेषु चतुर्णिकायामरैः कालविशेषाश्रयेण क्रियमाणपूजाविशेष प्रतिपादयितुं गाथापंचकेनाह;तब्बावण्णणगेसुवि बावण्णजिणालया हवंति तहिं । सोहम्मादी बारसकप्पिदा ससुरभवणतिया ॥ ९७३॥
तवापंचाशन्नगेष्वपि द्वापंचाशजिनालया भवति तेषु । सौधर्मादयो द्वादशकल्पेंद्राः ससुरभवनत्रिकाः ॥ ९७३ ॥