________________
३६८
त्रिलोकसारे
wwwwwwwwwwww
चतुर्विशं चतुर्विशं लवणद्वितीरयोः कालद्वितटयोरपि । द्वीपाः तावदंतरव्यासाः कुनरा अपि तन्नामानः ॥ ९२१ ॥ चउवीसं । लवणसमुद्रस्य द्वयोस्तीरयोः चतुर्विंशतिः चतुर्विशतिद्वपिाः कालादेकसमुद्रस्य द्वयोस्तटयोरपि द्वीपास्तटादंतराणि व्यासाश्च लवणसमुद्रवत्तावंतः । तत्रस्थाः कुनरा अपि तत्तद्वीपसमाननामानः स्युः ॥९२१
तेषु कुमानुष्यद्वीपेषु उत्पद्यमानान् गाथात्रयेणाह;जिणलिंगे मायावी जोइसमंतोवजीवि धणकंखा। अइगउरवसण्णजुदा करंति जे परविवापि ॥ ९२२॥ जिनलिंगे मायाविनो ज्योतिर्मत्रोपजीविनः धनकांक्षिणः ।
अतिगारवसंज्ञायुताः कुर्वति ये परविवाहमपि ॥ ९२२ ॥ जिण। जिनलिंगे मायाविनो जिनलिंगे ज्योतिर्मत्रवैद्यायुपजीविनो जिनलिंगे धनकांक्षिणो जिनलिंगे ऋद्धियशःसातगारवयुक्ताः जिनलिंगे आहारभयमैथुनपरिग्रहसंज्ञायुक्ताः ये जिनलिंगे परविवाहं कुर्वति ॥ ९२२ ॥ दसणविराहया जे दोसं णालोचयंति दूसणगा। पंचग्गितवा मिच्छा मोणं परिहरिय भुंजंति ॥९२३ ॥
दर्शनविराधका ये दोषं नालोचयंति दूषणकाः । पंचाग्नितपसः मिथ्याः मौनं परिहृत्य भुजते ॥ ९२३ ॥ दसणं । ये जिनलिंगे दर्शनविराधकाः ये च जिनलिंगे स्वदोषं नालोचयंति, ये जिनलिंगे परदूषकाः ये मिथ्यादृष्टयः पंचाग्नितपसः ये मौनं परिहृत्य भुंजते ॥ ९२३ ॥ दुब्भावअसुचिसूदगपुप्फवईजाइसंकरादीहिं। . कयदाणा वि कुवत्ते जीवा कुणरेसु जायते ॥ ९२४ ॥