________________
३५६
त्रिलोकसारे
पायारं । तत्प्राकारांतर्भागे वेदिकायुतं योजनार्धव्यासं वनमस्ति चतु रिव्यासं १६ जंबूद्वीपस्य सूक्ष्मपरिधौ ३१६२२८ न्यूनयित्वा ३१६२१२ चतुर्भिर्भक्ताश्चेत् ७१०५३ विजयादिद्वाराद् द्वारांतरं स्यात् ॥ द्वीपसमुद्रमध्यस्थितप्राकारवर्णन सहितं जंबूद्वीपवर्णनं समाप्तं ॥ ८९५ ।।
अथ लवणार्णवाभ्यंतरवर्तिनां पातालानामवस्थानं तत्संख्यां तत्परिमाणं चाह; -
लवणे दिसविदिसंतर दिसासु चउ चउ सहस्स पायाला मज्झुदयं तलवदणं लक्खं दसमं तु दसमकमं ॥ ८९६ ॥
लवणे दिशाविदिशांतर दिशासु चत्वारि चत्वारि सहस्रं पातालानि । मध्योदयः तलवदनं लक्षं दशमं तु दशमक्रमं ॥ ८९६ ॥
लवणे । लवणसमुद्रे दिक्षु ४ विदिक्षु ४ अंतरदिक्षु च ८ यथासंख्यं चत्वारि चत्वारि सहस्रं पातालानि । तत्र दिग्गतपातालानां मध्यमेकलक्षव्यासं १ ल. उदयश्च तथा १ ल. तलव्यासो अस्य १ ल दशमांशः १०००० वदनव्यासश्च । तथा विदिग्गतपातालानां दिग्गतपातालदशमांशक्रमो ज्ञातत्र्यः अंतर दिग्गतपातालानां च विदिग्गतपातालदशमांश क्रमो ज्ञातव्यः ॥ ८९६ ॥
अथ दिग्गतपातालानां संज्ञादिकमाह; - बडवामुहं कदंबगपायालं जूचकेसरं बड्डा । पुव्वादिवज्जकुड्डा पण सय बाहल दसम कमा ॥। ८९७ ॥ बडवामुखं कदंबकं पातालं यूपकेशरं वृत्तानि ।
: पूर्वादिवज्नकुड्यानि पंचशतवाहल्यं दशमं क्रमात् ॥ ८९७ ॥ बडवा | बडवामुखं कदंबकं पातालं यूपकेसर मिति पूर्वादिदिग्गतपातालनामानि । तानि वृत्तानि वज्रमयकुड्यानि, दिग्गतंपातालानां कुड्यबाहल्यं