________________
त्रिलोकसारे
अवरपरीतस्योपरि एकादिवर्द्धिते भवेन्मध्यम् । अवरपरीतं विरलय्य तदेव दत्वा संगुणिते ॥ ३६ ॥
अवर । अवरपरीतस्योपरि एकादिके वृद्ध सति भवेन्मध्यं जघन्यपरीतमेकैकरूपेण विरलय्य तदेव जघन्यपरिमितं रूपं प्रति दत्त्वा संगुणिते॥३६॥ अवरं जुत्तमसंखं आवलिसरिसं तमेव रूऊणं । परिमिदवरमावलिकिदि दुगवारवरं विरूव जुत्तवरं।३७
अवरं युक्तमसंखं आवलिसदृशं तदेव रूपोनम् । परिमितवरं आवलिकृतिकिवारावरं विरूपं युक्तवरम् ॥ ३७॥
अवरं । जधन्ययुक्तासंख्यं स्यात् । एतदेवावलिसदृशं । तदेव रूपोनं परिमितासंख्यातवरं आवलिकृतिः द्विकवारासंख्यातजघन्यं तदेव विगतरूपं चेत् युक्तासंख्यातोत्कृष्टं स्यात् ॥ ३७॥ अवरे सलागविरलणदिज्जे बिदियं तु विरलिदूण तहिं। दिजं दाऊण हदे सलागदो रूवमणिज्जं ॥३८॥
अवरे शलाकाविरलनदेये द्वितीयं तु विरलय्य तस्मिन् । देयं दत्त्वा हते शलाकातः रूपमपनेतव्यम् ॥ ३८ ॥
अवरे। द्विक्वारासंख्यातजघन्ये शलाकाविरलनदीयमानरूपेण विधा कृते तत्र द्वितीयं विरलय्य तस्मिन् विरलिते देयं दत्त्वा अन्योन्यहतमिति शलाकाराशितः रूपमपनतव्यम् ॥ ३८॥ तत्थुप्पण्णं विरलिय तमेव दाऊण संगुणं किच्चा । अवणय पुणरवि रूवं पुब्विल्लसलागरासादो ॥३९॥ तत्रोत्पनं विरलय्य तदेव दत्वा संगुणं कृत्वा । अपनयेत् पुनरपि रूपं पूर्वतनशलाकाराशितः ॥ १९॥