SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। २७७ अन्ये स्वकपदवीं स्थिताः सेनागणवणिग्दंडपतिः मंत्री। महत्तरः तलवरः वर्णः चतुरंगपुरोहितामात्यमहामात्यः ॥ ६८३ ॥ अण्णे । अन्ये राजादयः स्वकीयस्वकीयपदवीं स्थिताः । तत्र सेनापतिगणिकपतिर्वणिकातिर्दडपतिस्समस्तसेनानायक इत्यर्थः । मंत्री पंचांगमंत्रकुशल इत्यर्थः महत्तरः कुलवृद्ध इत्यर्थः तलवरः क्षत्रियादिचतुर्वर्णः चतुरंगसेनापुरोहितः अमात्यः देशाधिकारीत्यर्थः महामात्यः स सर्वाधिकारीत्यर्थः ॥ ६८३॥ इदि अट्ठारससेढीणहिओ राजो हवेज मउडधरो । पंचसयरायसामी अहिराजो तो महाराजो ॥ ६८४ ॥ इति अष्टादशश्रेणीनामधिपो राजा भवेत् मकुटधरः । पंचशतराजस्वामी अधिराजः ततः महाराजः ॥ ६८४ ॥ इदि । इत्यष्टादशश्रेणीनामधिपो राजा स एव मकुटधरो भवेत्, पंचशतराजस्वामी अधिराजः सहस्रराजस्वामी महाराजः ॥ ६८४ ।। तह अद्धमंडलीओ मंडलिओ तो महादिमंडलिओ। तियछक्खंडाणहिवा पहुणो राजाण दुगुणदुगुणाणं ॥ तथा अर्धमंडलिकः मंडलिकः ततो महादिमंडलिकः । त्रिकषट्खंडानामधिपाः प्रभवः राज्ञां द्विगुणद्विगुणानाम् ॥ ६८५ ॥ तह । तथा द्विसहस्रराजस्वामी अर्धमंडलिकः, चतुःसहस्रराजस्वामी मंडलिकः, ततोष्टसहस्रराजस्वामी महामंडलिकः, षोडशसहस्रराजस्वामी त्रिखंडाधिपतिः, द्वात्रिंशत्सहस्रराजस्वामी षट्खंडाधिपतिः, इत्यधिराजादयः सर्वे राज्ञः सकाशात् द्विगुणद्विगुणा ज्ञातव्याः ॥ ६८५ ।।
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy