________________
त्रिलोकसारे
द्वीपसमुद्रे दत्ते एकैकस्मिन् परिसमाप्यते यत्र ।
ततः अधस्तनद्वीपोदधिषु कृतगर्तस्तैः भर्तव्यः ॥ ३० ॥ दीव । द्वीपे समुद्रे च दत्ते एकैकस्मिन् सर्षपे परिसमाप्यते यत्र तत् आरभ्य अधस्तनसर्वद्वीपोदधिषु प्राक्तनवेधप्रमाणेन कृतगर्तः पुनस्तैः सर्षपैर्भतव्यः ॥ ३० ॥
अथ तस्य द्वितीयकुंडस्य क्षेत्रफलानयनोपायभूतगच्छमाह:-- बिदिये पढमं कुंडं गच्छो तदिए दु पढमबिदियदुगं। इदि सवपुव्वगच्छा तहिं तहिं सरिसवा सज्झा॥३१॥ द्वितीये प्रथमं कुंडं गच्छः तृतीये तु प्रथमद्वितीयद्विकम् । इति सर्वपूर्वगच्छाः तैः तैः सर्षपाः साध्याः ॥ ३१ ॥ बिदिये। द्वितीयकुंडसर्षपानयने प्रथमकुंडसर्षपप्रमाणं गच्छः, तृतीयकुंडसर्षपानयने तु प्रथमद्वितीयकुंडसर्षपमानं गच्छः इति सर्वपूर्वपूर्वगच्छास्तैस्तैः सर्षपाः . साध्याः तं तं गच्छं गृहीत्वा “ रूऊणाहियपद " इत्यादिना सूचीव्यासमानीय पश्चाद् " वासो तिगुणो परिही" इत्यादि तत्र तत्र कुंडे सर्षपाः साध्याः इत्यर्थः ॥ ३१ ॥ __ अथ तत्कृतगर्ते भृते सति किं जातमित्यत्राह;बिदिए वारे पुण्णं अणवद्विदमिदि सलागकुंडम्हि । पुणरपि णिक्खिविदव्वा अवरेगा सरिसवाण सला ३२
द्वितीये वारे पूर्ण अनवस्थितमिति शलाकाकुंडे ।
पुनरपि निक्षेप्तव्या अवरैका सर्षपाणां शलाका ॥ ३२ ॥ बिदिए । द्वितीये वारे पूर्ण अनवस्थितकुंडमिति शलाकागर्ते पुनरपि निक्षेप्तव्या अपरैका सर्षपाणां शलाका ॥ ३२॥