________________
नरतिर्यग्लोकाधिकारः।
२७५
RAMMA
सीतासीतोदानदीतीरसमीपे जले द्वीपत्रयं ।
पूर्वादिना मागधवरतनुप्रभासामराणां भोत् ॥ ६७८ ॥ सीता । सीतासीतोदानदीतीरसमीपे जले पूर्वापरेण मागधवरतनुप्रभासाख्यव्यंतराणां द्वीपत्रयं भवेत् ॥ ६७८ ॥ : अथ विदेहक्षेत्रगतवर्षादिस्वरूपं गाथाद्वयेनाह;वरसंति कालमेहा सत्तविहा सत्त सत्त दिवसवही । वरिसाकाले धवला बारस दोणाभिहाणब्भा ॥६७९ ॥.
वर्षति कालमेघाः सप्तविधाः सप्त सप्त दिवसावधीन् ।
वर्षाकाले धवला द्वादश द्रोणाभिधाना अभ्राः ॥ ६७९ ॥ वरसति । सप्तविधाः कालमेघाः सप्तसप्तदिवसावधीन वर्षाकाले वर्षति । धवलवर्णा द्रोणाभिधाना द्वादशाभ्राः तथा वर्षति ॥ ६७९ ॥ देसा दुभिक्खीदीमारिकुदेववण्णलिंगिमदहीणा। भरिदा सदावि केवलिसलागपुरिसिड्डिसाहूहिं ॥६८०॥
देशा दुर्भिक्षेतिमारिकुदेववर्णलिंगिमतहीनाः। . भृताः सदापि केवलिशलाकापुरुषर्धिसाधुभिः ॥ ६८०॥ देसा। विदेहस्था देशा दुर्भिक्षेणातिवृष्टयानावृष्टिमूषकशलभशुकस्वचक्रपरचक्रलक्षणसप्तविधेतिभिः गोमार्यादिमारिभिः कुदेवताभिरन्यलिंगिमतैश्च हीनाः सदापि केवलिभिः शलाकापुरुषैः ऋद्धिसंपन्नसाधुभिर्भूता वर्तते।६८०।
अथ तीर्थकृत्सकलचक्रार्धचक्रिणां पंचमंदरापेक्षया जघन्योत्कृष्टसंख्यया वर्तनमाह;तित्थद्धसलयचक्की सद्विसयं पुह वरेण अवरेण । धीसं वीसं सयले खेत्ते सत्तरिसयं वरदो ॥ ६८१ ॥