________________
लोकसामान्याधिकारः।
१३
अथ का पूर्ववत् व्यवहारयाजमणितं दृष्ट्वा परिहारचतुष्क विरण
वेधेन गुणितं फलं “ फलत्तिभागप्पिय " इति आगतेन भागहारत्रिकेण सममुपरितनपरिधेः त्रिकमपवर्त्य व्यासचतुर्थांशस्य हारचतुष्कं विरलयित्वा गाथोच्चारणार्थमुपर्यधश्च त्रिभिर्गुणितं दृष्ट्वा परिणाहेक्कारसमेत्यायुक्तं । एतत्स्थूलफलं पूर्ववत् व्यवहारयोजनादिकं कर्तव्यं ॥ २२ ॥
अथ केषां केषां वेधः परिध्येकादशमभाग इत्याह;तिलसरिसवबल्लाढइ-चणयतसिकुलत्थरायमासादि। परिणाहकारसमो बेहो जदि गयणगोरासी ॥२३॥
तिलसर्षपबल्लाढकीचणकातसिकुलत्थराजमाषादेः ।
परिध्येकादशमो बेधो यदि गगनगो राशिः ॥ २३ ॥ तिल तिलसर्षपबल्लाढकीचणकातसिकुलत्थराजमाषादेः परिध्येकादशमो वेधो यदि गगनराशिः भवेत् ॥ २३ ॥ अथ गुणितरांशिमुच्चारयति;बेरुवंतदियपंचमवग्गं अट्ठारसेहिं संगुणियं । तेत्तीसमुण्णजुत्तं हरभजिदं जंबुदीवसिहा ॥ २४ ॥
द्विरूपतृतीयपंचमवर्गः अष्टादशैः संगुणितः । त्रयस्त्रिंशच्छून्ययुक्तः हरभक्तः जंबूद्वीपशिखा ॥ २४ ॥ बेरूव । द्विरूपवर्गधारातृतीयपंचमवर्गः अष्टादशाभः संगुणितः त्रयस्त्रिंशच्छ्रन्ययुक्तः हर (एकादश) भक्तश्चेत् जंबूद्वीपशिखाफलं भवति ॥ २४ ॥ अथ सिद्धांकमुच्चारयति;इगिसगणवणवदुगणमणभहचउपणचउक्कपणसोलं। सोलसछत्तीसजुदं हरहिदचउरो य पढमसिहा॥२५॥
एकसप्तनवनवद्विकनभोनभोष्टचतुःपंचचतुष्कपंचषोडश । षोडशषट्त्रिंशद्युतं हरहितचतुष्कं च प्रथमशिखा ॥ २५ ॥