________________
नरतिर्यग्लोकाधिकारः।
अथ तेषु सरोवरेषु समुत्पन्नमहानदीनां संज्ञा गाथाद्वयेनाह;सरजा गंगासिंधू रोहि तहा रोहिदास णाम णदी। हरि हरिकंता सीदा सीदोदा णारि णरकता ॥ ५७८॥
सरोजाः गंगासिधू रोहित्तथा रोहितास्या नाम नदी । हरित् हरिकांता सीता सीतोदा नारी नरकाता ॥ ५७८ ॥ सरजा। सरसि जाताः गंगासिंधू रोहित्तथा रोहितास्या नामा नदी हरिद्धरिकांता सीता सीतोदा नारी नरकांता ॥ ५७८ ॥ सरिदा सुवण्णरूप्पयकूला रत्ता तहेव रत्तोदा। पुवावरेण कमसो णाभिगिरिपदक्खणेण गया ॥५७९॥
सरितः सुवर्णरूप्यकूला रक्ता तथैव रक्तोदा । पूर्वोपरेण क्रमशो नाभिगिरिप्रदक्षिणेन गताः ॥ ५७९ ॥ सरिदा । सुवर्णकूला रूप्यकूला रक्ता तथैव रक्तोदा। एताः सरितः क्रमशः पूर्वोक्ताः पूर्वमुखेनापरोक्ताः अपरमुखेन नाभिगिरिप्रदक्षिणेन गताः॥ ५७९ ॥
अथ तासां नदीनां उभयतटस्वरूपं कथयति;पुण्णागणागपूगीकंकेल्लितमालकेलितंबूली। . लवलीलवंगमल्लीपहुदी सयलणदिदुतडेसु ॥ ५८० ॥
पुंनागनागपूगीकंकेल्लितमालकदलीतांबूली । लवलीलवंगमल्लीप्रभृतयः सकलनदीद्वितटेषु ॥ ५८० ॥
पुण्णाग । 'नागः नागकेसरः पूगी कंकल्लिः तमालः कदली तांबूली लवली लवंगः मल्लीप्रभृतयो वृक्षाः सकलनदीद्वितटेषु संति ॥ ५८० ॥
अथ कस्मिन् कस्मिन् सरस्येता नयः उत्पन्ना इति कथयति;गंगादु रोहिदस्सा पउमे रत्तदु सुवण्णमंतदहे । सेसे दो दो जोयणदलमंतरिदूण णाभिगिरि ॥५८१ ॥