SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे पणवण्णमव्व । त्रिचत्वारिंशत्पर्वस्वतीतेषु तुर्य विषुपं षष्ठयां तिथ पुनर्वसुनक्षत्रगतं स्यात् । पंचमं विषुपं पंचोत्तरपंचाशत्पर्वस्वतीतेषु द्वादश्यामुत्तराभाद्रपदे नक्षत्रे स्यात् ॥ ४२३ ॥ अडसडिगदे दिए मित्ते छठ्ठे असीदिपव्वगढ़े | णवमिमघाए सत्तममिह तेणउदिगदे दु अट्टमयं ॥४२४ ॥ अष्टषष्ठिगतेषु तृतीयायां मैत्रे षष्ठं अशीतिपर्वगतेषु । नवमीमघायां सप्तमं इह त्रिनवतिगतेषु तु अष्टमम् ॥ ४२४ ॥ १८२ अडसड | अष्टषष्टिपर्वसु गतेषु तृतीयायां तिथौ मैत्रे अनुराधायां षष्ठं विषुपं स्यात् । अशीतिपर्वसु गतेषु नवम्यां तिथौ मघानक्षत्रे सप्तमं विषुषं स्यात् । इह त्रिनवतिपर्वसु गतेषु अष्टमं विषुपम् ॥ ४२४ ॥ अस्सिणि पुणे पव्वे णवमं पुण पंचजुदसए पव्वे । ती छट्टितिहीए णक्खत्ते उत्तरासाढे ॥ ४२५ ॥ अश्विनी पूर्णे पर्वणि नवमं पुनः पंचयुतशतेषु पर्वेषु । अतीतेषु षष्ठीतिथौ नक्षत्रे उत्तराषाढे ॥ ४२५ ॥ अस्सिणि । अश्विनिनक्षत्रे अमावास्यायां पर्वणि स्यात् नवमं विषुपं पुनः पंचयुतशत पर्वस्वतीतेषु षष्ठयां तिथौ उत्तराषाढे नक्षत्रे स्यात् ॥ ४२५ ॥ चरिमंदसमं विसुपं सत्तर सुत्तरसएस पव्वेसु । तीदेसु बारसीए जाइदि उत्तरगफग्गुणिए ॥ ४२६ ॥ चरमं दशमं विषुवं सप्तदशोत्तरशतेषु पर्वेषु । अतीतेषु द्वादश्यां जायते उत्तरा फाल्गुन्याम् ॥ ४२६ ॥ चारमं दशमं । चरमं दशमं विषुपं सप्तदशोत्तरपर्वस्वतीतेषु द्वादश्यां तिथौ उत्तरफाल्गुन्यां नक्षत्रे जायते ॥ ४२६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy