________________
ज्योतिर्लोकाधिकारः। १६१ . अथ तयो रविशशिनोर्गमनप्रकारं पुनदृष्टांतमुखेनाह;गयहयकेसरिगमणं पढमे मज्झंतिमे य सूरस्स। पडिपरिहिं रविससिणो मुहुत्तगदिखेत्तमाणिज्जो ३८८
गनहयकेसरिगमनं प्रथमे मध्ये अंतिमे च सूर्यस्य । प्रतिपरिधि रविशशिनोः मुहूर्तगतिक्षेत्रमानेयम् ॥ ३८८ ॥
गय । गजगमनं हयगमनं केसरिगमनं प्रथमे मध्यमे अंतिमे च पथि सूर्याचंद्रमसोर्भवति । इदानीं रविशशिनोः प्रतिपरिधि मुहूर्तमतिक्षेत्रमानेयं । कथमिति चेत् । षष्ठिमुहूर्ताना ६० मेतावति क्षेत्रे ३१५०८९ एकमुहूर्तस्य कियत् क्षेत्रमिति संपातेनानेतव्यं । सूर्यस्याभ्यंतरपरिधौ मुहूर्तगतिरियं ५२५१। चंद्रस्याप्येवं त्रैराशिकविधिनानेतव्यं । चंद्रस्य परिधिसमापनकालः ६२३३७ समच्छेदेनानयोर्मेलने प्रमाणराशिः १३५२५ फल ३१५०८९ इच्छा मुहूर्त १ लब्ध ५०७३ शेष १५ ॥ ३८८ ॥ __ अथाभ्यंतरवीथीस्थसूर्यस्य चक्षुःस्पर्शाध्वानमानयति गाथात्रिकेन;सहिहिदपढमपरिहिं णवगुणिदे चक्खुपासअद्धाणं । तेणूणं णिसहाचलचावद्धं जं पमाणमिणं ॥ ३८९ ।।
षष्ठिहितप्रथमपरिधौ नवगुणिते चक्षुःस्पर्शाध्वा । तेनोनं निषधाचलचापाधै यत् प्रमाणमिदम् ॥ ३८९ ॥
सहि । षष्ठिमुहूर्तानां एतावति गमनक्षेत्रे ३१५०८९ नव ९ मुहूर्तानां कियत् क्षेत्रमिति संपातक्रमेण षष्ठिभिर्हते प्रथमपरिधौ ३१५०८९ त्रिभिरपवर्तितैः ३१५०८।३ गुणयित्वा ९५५२६७ भक्ते सति ४७२६३ शे २ चक्षुःस्पर्शाध्वा भवति । निषधाचलचापा १२३७६८१६ (६१८८४ शे से तेन चक्षुःस्पर्शाध्वना न्यूनं यत्तत्प्रमाणमिदं पुरो गाथायां कथ्यमानं ॥ ३८९ ॥