________________
ज्योतिर्लोकाधिकारः।
. १५९
संपात्यापवर्तिते लब्धमुहूर्त एकः १ । एतं धृत्वा षष्ठिमुहूर्तानामेतावति क्षेत्रे गते ३१६२२ एक मुहूर्तस्य कियत् क्षेत्रमिति संपात्यापवर्तिते लब्धमिदं ५२७१ मासं प्रति क्षेत्रहानिचयं स्यात् । इदं दक्षिणायने तत्तन्मासे तापक्षेत्रे अपनयेत् तमः क्षेत्रे युज्यांत् । उत्तरायणे तत्तन्मासतापक्षेत्रे युज्यात् तमःक्षेत्रे अपनयेत् । एवं कृते विवक्षितमासे विवक्षितपरिधौ तापतमसर्विषय. क्षेत्रमागच्छति ॥ ३८२ ॥
अथैवमानीततापतमसोर्वर्तनाक्षेत्रमाह;परिधिझि जगिं चिट्ठदि सूरो तस्सेव तावमाणदलं। बिंबपुरदो पसप्पदि पच्छाभागे य सेसद्धं ।। ३८३ ॥
परिधौ यस्मिन् तिष्ठति सूर्यः तस्यैव तापमानदलम् । विंबपुरतः प्रसर्पति पश्चाद्भागे च शेषार्धम् ॥ ३८३ ॥. परिधि ।यस्मिन् परिधौ सूर्यस्तिष्ठति तस्यैव तापप्रमाणदलं बिंबपुरतः प्रसर्पति, शेषार्ध पश्चाद्भागे अपसर्पति ॥ ३८३ ॥ इदानीं तापतमसोर्हानिवृद्धिमाह;'पणपरिधीयो भजिदे दसगुणसूरंतरेण जल्लद्धं । सा होदि हाणिवड्डी दिवसे दिवसे च तावतमे ॥३८४॥ पंचपरिधिषु भक्तेषु दशगुणसूर्यातरेण यल्लब्धं । सा भवति हानिवृद्धिर्दिवसे दिवसे च तापतमसोः ॥ ३८४ ॥ पण । षष्ठिमुहूर्तानां पंचपरिध्यन्यतरप्रमितेषु क्षेत्रेषु गतेषु दयेकषष्ठि हर मुहूर्तानां कियत् क्षेत्रमिति संपातेन पंचपरिधिषु दशगुणसूर्यातरेण १८३० भक्तेषु यल्लब्धं १७११ सा भवति हानिर्वृद्धिर्दिवसे दिवसेच तापतमसोः ॥ ३८४ ॥
.