________________
त्रिलोकसारे
१५६
३४०
इनगतिक्षेपे कृते उत्तरोत्तरसुरगिरिसूर्यांतरं स्यात् । अभ्यंतरवीथीविष्कंभे ९९६४० द्विगुणदिनगतिं भक्त्वा ५/६ क्षेपे कृते ९९६४५५ . द्वितीयवीथीगत सूर्य सूर्ययोरंतरं स्यात् । एवं स्वस्वाभ्यंतरे विष्कंभे द्विगुणदिनगतिक्षेपं कृत्वा उत्तरोत्तरसूर्यसूर्ययोरंतरं ज्ञातव्यं । विक्खंभे - त्यादिनाभ्यंतरविष्कंभस्य परिधिमानीय तस्मिन् अभ्यंतरवीथीपरिधौ ३१५०८९ द्विगुणदिनगति परिधिं विक्खंभ वग्गदहगुण ११५६००० करणी १६७५ त्यादिनानीय निजहारेण भक्त्वा १७ निक्षिप्ते ३१५१०६१ द्वितीयवीथीपरिधिः स्यात् । अमुमेव द्विगुणदिनगतिपरिधिं पूर्वपूर्वपरिधौ क्षेपे कृते उत्तरोत्तरवीथीपरिधिः स्यात् । एवमुक्तप्रकारेण दिनगतिक्षेपात् द्विगुणदिनगतिक्षेपात् द्विगुणदिनगतिपरिधिक्षेपाञ्च सुरगिरिसूर्यतरं परिधिं च साधयेत् क्रमशः ॥ ३७८ ॥
अथैवमुक्तपरिधौ परिभ्रमतः सूर्यस्य दिनरात्रिहेतुत्वं तयोः प्रमाणं च भार्गाश्रयेणाह -
सूरादो दिणरत्ती अट्ठारस बारसा मुहुत्ताणं । - अभंतर म्हि एवं विवरीयं बाहिरम्हि हवे ॥ ३७९ ॥ सूर्यात् दिनरात्री अष्टादश द्वादश मुहूर्तानाम् ।
अभ्यंतरे एतत् विपरीतं बाह्ये भवेत् ॥ ३७९ ॥
380
६१
३४०
६५
सूरादो । सूर्यात् मुहूर्तानामष्टादश द्वादशसंख्ये द्वे यथासंख्यं दिनरात्री स्यातां । केति चेद्, अभ्यंतरपरिधौ एतदेव विपरीतं बाह्यपरिधौ भवेत् ॥ ३७९ ॥
अथ सूर्यस्यावस्थितिस्वरूपं दिनरात्र्योर्हानिचयं चाह; — कक्कडमयरे सव्वब्भंतर बाहिरपट्टिओ होदि । महभूमीण विसेसे वीथीणंतरहिदे य चयं ॥ ३८० ॥