________________
१५४
त्रिलोकसारे
द्वौ द्वौ चंद्ररवी प्रति एकैकं भवति चारक्षेत्रं तु । पंचशतं दशसहितं रविविवाधिकं च चारमही ॥ ३७४ ॥
दो हो । द्वौ द्वौ चंद्ररवी प्रति एकैकं भवति चारक्षेत्रं । समस्तचारक्षेत्र पुनः कियदिति चेत्, पंचशतानि दशसहितानि रविबिंबप्रमाणेनाधिकानि ५१०४ चारमहीप्रमाणं स्यात् ॥ ३७४ ॥ ___ अथ तयोश्चारक्षेत्रविभागनियममाह;जंबुरविंदू दीवे चरंति सीदिं सदं च अवसेसं । लवणे चरांति सेसा सगसगखेत्ते व य चरति ॥ ३७५॥ जंबूरवींदवः द्वीपे चरंति अशीतिशतं च अवशेषम् । लवणे चरंति शेषाः स्वकस्वकक्षेत्रे एव च चरंति ॥ ३७५ ॥ जंबू । जंबूद्वीपस्थरवींदवः अशीतिशतयोजनानि १८० द्वीपे चरंति अवशिष्टयोजनानि ३३०१६ लवणसमुद्रे चरंति । शेषाः पुष्करार्धपर्यंतचंद्रादित्याः स्वकीयस्वकीयक्षेत्रे एव चरंति ॥ ३७५॥
अथ तत्र सूर्याचंद्रमसोर्वीथीप्रमाणं कथयति;पडिदिवसमेक्कवीथिं चंदाइच्चा चरंति हु कमेण । चंदस्स य पण्णरसा इणस्स चउसीदिसय वीथी॥३७६॥
प्रतिदिवसं एकवीथिं चंद्रादित्याः चरंति हि क्रमेण । चंद्रस्य च पंचदश इनस्य चतुरशीतिशतं वीथ्यः ॥ ३७६ ॥ पडिदिवस । द्वौ द्वौ मिलित्वा प्रतिदिवसमेकवीथीं चंद्रादित्याश्चरंति खलु क्रमेण चंद्रस्य पंचदश वीथ्यः इनस्य चतुरशीतिशतवीथ्यः स्युः ३७६
अथ वीथीनामंतरेण दिवसगतिं कथयति;पथवासपिंडहीणा चारक्खेत्ते णिरेयपथभजिदे। वीथीणं विच्चालं सगबिंबजुदो दु दिवसगदी ॥ ३७७ ॥