________________
भवनाधिकारः।
अथ तच्चैत्यवृक्षभेदानाह;अस्सत्थसत्तसामलिजंबूवेतसकदंबकपियंगू । सिरिसं पलासरायडुमा य असुरादिचेत्ततरू ॥ २१४ ॥
अश्वत्थसप्तच्छदशाल्मलिजंबूवेतसकदंबकप्रियंगवः । शिरीषः पलाशराजद्रमौ च असुरादिचैत्यतरवः ॥ २१४ ॥ अस्स । छायामात्रमेवार्थः ॥ २१४ ॥ अथ चैत्यद्रुमाणामन्वर्थतां समर्थयति;चेत्ततरूणं मूले पत्तेयं पडिदिसम्हि पंचेव । पलियंकठिया पडिमा सुरच्चिया ताणि वंदामि ॥२१५॥
चैत्यतरूणां मूले प्रत्येक प्रतिदिशं पंचैव । पर्यकस्थिताः प्रतिमाः सुरार्चिताः ताः वंदे ॥ २१५ ॥ चेत्त । छायामात्रमेवार्थः ॥२१५ ॥ अथ तत्प्रतिमाग्रस्थमानस्तंभस्वरूपमाह;पडिदिसयं णियसीसे सगसगपडिमाजुदा विराजंति । तुंगा माणत्थंभा रयणम या पडिदिसं पंच ॥ २१६ ॥
प्रतिदिशं निजशीर्षे सप्तसप्तप्रतिमायुता विराजते ।
तुंगा मानस्तंभा रत्नमया प्रतिदिशं पंच ॥ २१६ ॥ पडि । छायामात्रमेवार्थः ॥ २१६ ॥
अथेंद्राणां भवनसंख्यां ज्ञापयन्नाह;चोत्तीसं चउदालं अडतीसं छसुवि ताल पण्णासं । चउचउविहीण ताणि य इंदाणं भवणलक्खाणि॥२१७॥