________________
१५
पं. श्री रतनलालजी बैनाड़ा (आगरा) द्वारा
उक्त १९ जिज्ञासाओं का समाधान
जिज्ञासा १ - निश्चय व्यवहार सम्यग्दर्शन का क्या लक्षण है? परिभाषा बताइए । समाधान - १. श्री बृहद्रव्यसंग्रह - गाथा ४१ की टीका में कहा है
'एवमुक्तप्रकारेण मूढत्रयमदाष्टक षडयातन शङ्काद्यष्टमलरहितं शुद्धजीवादितत्त्वश्रद्धानलक्षणं सराग सम्यक्त्वाभिधानं व्यवहार सम्यक्त्वं विज्ञेयम् । तथैव तेनैव व्यवहारसम्यक्त्वेन पारम्पर्येण साध्यं शुद्धोपयोगलक्षण निश्चयरत्नत्रयभावनोत्पन्न परमाह्लादेकरूपसुखामृतरसास्वादनमेवोपादेयमिन्द्रियसुखादिकं च हेयमितिं रुचिरूपं वीतराग चारित्राविनाभूतं वीतरागसम्यक्त्वाभिधानं निश्चयसम्यक्त्वं च ज्ञातव्यमिति । '
ऐसे इस पूर्वोक्त प्रकार से तीन मूढ़ता, आठ मद, छह अनायतन और शंका आदि आठ दोषरूप से पच्चीस मल हैं उनसे रहित तथा शुद्ध जीव आदि तत्त्वार्थों के श्रद्धानरूप लक्षण का धारक, सराग सम्यक्त्व है दूसरा नाम जिसका ऐसा व्यवहार सम्यक्त्व जानना चाहिए और इसीप्रकार उसी व्यवहार सम्यक्त्व द्वारा परंपरा से साधने योग्य, शुद्ध उपयोगरूप निश्चय रत्नत्रय की भावना से उत्पन्न जो परम आह्लादरूप सुखामृत रस की आस्वादन है वही उपादेय हैं और इंद्रियजन्य सुख आदिक हेय है ऐसी रुचिरूप तथा वीतराग चारित्र के बिना नहीं उत्पन्न होने वाला ऐसा वीतराग सम्यक्त्व नाम का धारक निश्चय सम्यक्त्व जानना चाहिए। २. परमात्म प्रकाश २/१८ की टीका में पृ. १३२ पर इस प्रकार कहा हैद्विधा सम्यक्तं भण्यते, सराग- वीतराग़ भेदेन । सरागसम्यक्त्वलक्षणं कथ्यते । प्रशम संवेगानुकम्पास्तिक्याभिव्यक्ति-लक्षणं सरागसम्युक्त्वंलक्षणं भण्यते, तदेव व्यवहार सम्यक्त्वमिति। तस्य विषयभूतानि षद्रव्याणीति । वीतराग सम्यक्त्वं निजशुद्धात्मानुभूति लक्षणं वीतराग चारित्राविनाभूतं तदेव निश्चयसम्यक्त्वमिति । अत्राह प्रभाकरभट्टः । निजशुद्धात्मैवोपादेय इति रुचिरूपं निश्चयसम्यक्त्वं भवतीतिबहुधा व्याख्यातं पूर्व भवद्भिः, इदानीं पुनः वीतराग चारित्राविनाभूतं निश्चयसम्यक्त्वं व्याख्यातमिति पूर्वापारविरोध: कस्मादिति चेत्। निजशुद्धात्मैवोपादेय इति रुचिरूपं निश्चयसम्यक्त्वं गृहस्थावस्थायां तीर्थंकरपरमदेव भरतसगररामपाण्डवादीनां विद्यते, नच तेषां वीतराग चारित्रमस्तीति परस्परविरोधः, अस्ति चेत्तर्हितेषासंयतत्त्वं कथमिति पूर्वपक्ष: । तत्र परिहारमाह । तेषां शुद्धात्मोपादेयभावनारूपं निश्चयसम्यक्त्वं विद्यते । परं किन्तु चारित्रमोहोदयेन स्थिरता नास्ति व्रतप्रतिज्ञाभङ्गो भवतीति तेन कारणेनासंयता वा भण्यते। शुद्धात्म भावनाच्युतः सन्तः भरतादयोनिर्दोषिपरमात्मनामर्हत्सिद्धानां गुणस्तववस्तुस्तवरूप स्तवनादिक कुर्वन्ति तच्चरितपुराणादिकं च समाकर्णयन्ति तदाराधकपुरुषाणामाचार्योपाध्यायसाधुनां विषय
-