________________
ओम्
प्रास्ताविकम् लोकान् अविद्यान्धतमसात् उद्धर्तुमेव कृतावतारो भगवान् वासुदेवः प्रपन्नायार्जुनाय "अध्यात्मविद्या विद्यानाम्" इत्यध्यात्मविद्यामेव सकलविद्यावरिष्ठां प्रत्यपादयत्। सा चाध्यात्मविद्या वेदशिरोभिरुपनिषद्भिः प्रतिपत्तव्या। तत्र संदिहानानां पुरुषाणां संदेहाः वैयासिकशारीरकमीमांसानिर्धारितन्यायरेव परिहर्तव्याः। उपनिषदां सारसंग्रहभूता भगवद्गीता।
उपनिषदः, ब्रह्मसूत्राणि, भगवद्गीता-इत्येतत्त्रयं भगवान् शंकरः परमहंसपरिव्राजकरूपधृक् प्रसन्नगम्भीरैः पदनिगुम्भैः व्याख्याय औपनिषदमात्मतत्त्वं स्फुटं प्राचीकशत् । उपनिषदाद्यर्थपरिशीलनेन समेषामात्मतत्त्वावगमनं दुःशकमिति मन्वानः श्रीशंकराचार्यः सुलभावगाहान् बहून् विवेकचूडामण्यादीन् प्रबन्धान् प्राणषीत् । - विवेकचूडोमणिनामाऽयं प्रबन्धः तेषु चूडामणिरिव प्रकाशमानः सर्वत्र प्रचुरप्रचुरः समुपलभ्यते । दुरूहमप्यध्यात्मतत्त्वं करतलामलकवत् तत्र स्फुटीभवति । उपनिषद्भाष्यादिषु दुर्लभप्रवेशानामपि तत्र प्रवेशः सुलभः ।
एतादृशस्य ग्रन्थरत्नस्य यदि काचित् प्रामाणिकी व्याख्याऽपि स्यात् तर्हि हेम्नः परमामोद इति परिकलय्य अस्मदाचार्यपादाः स्फुटप्रतिपत्तये गभीरावगाहाय च व्याख्यां कांचन व्यरचयन् । व्याख्यायाः उत्तमत्वविषये नास्माभिः किंचिदपि वक्तव्यमस्ति। श्रीचन्द्रशेखरभारतीति प्रथितप्रातःस्मरणीयनामधेयाः अस्मदाचार्यपादाः कृततपश्चर्याः सर्वतन्त्रस्वतन्त्राः शास्त्रोपदिष्टार्थानुष्ठाननिष्ठागरिष्ठाः अपरोक्षीकृतात्मतत्त्वाः जीवन्मुक्ताः अभूवन्नित्येतदेव व्याख्यायाः उत्कर्षबोधनायालम् ।
व्याख्यायाः अपरिपूर्तिस्तावत् किंचिदिव मनस्तोदमावहति । व्याख्यापूरणाय आचार्यपादान् कदाचिद्वयं प्रार्थयाम। "वक्तव्या अत्रैव संगृहीताः; निदिध्यासनमन्तरा नाधुनाऽन्यत्र चित्तं व्यापृणोति" इति स्वमाशयमाविरकुर्वन् । तेनेयमपरिपूर्तिः न न्यूनतामावहेदित्यस्माकं मतिः । ग्रन्थमिमं सम्यगधीत्य आत्मतत्त्वमधिगत्य सर्वेऽपि लोकाः कृतकृत्या भवेयुरित्याशास्महे ।
अभिनवविद्यातीर्थः शृङ्गगिरि-जगद्गुरु-श्रीचन्द्रशेखरभारतीस्वामिना
करकमलसंजातः