________________
Prakrit Verses in Sanskrit Works on Poetics
681
52.350. ततो रामोऽपि भणति । किं कुर्वन् । स्वीयेन धीरोदात्तत्वादिगुणप्रसूतेन यशसा उदधेस्तथाविधमेव यश:,
स्वीयेन च मर्यादानतिक्रमलक्षणेन धैर्येण तथाविधमेव तस्य धैर्यम्, परानतिक्रमणीयतालक्षणया च निजया गुरुतया तादृशीमेव तस्य गुरुताम, उचाक्चत्वशून्यतारूपयावस्थित्या तद्रूपामेव तस्य स्थिति समाक्रामंल्लघूकुर्वन्नित्यर्थः । तथा चातीव धैर्यादिगणसंवलितमक्तवानिति भावः ।
71.353. .Vide SK S.No. (5.44) supra. 72.354. यस्य कृष्णरूपिणो मधुमथनस्य भुजान्तौ हस्तौ ताभ्यां निष्ठुरं यथा स्यादेवं परि सर्वतोभावेन गृहीतं
धृतमरिष्टस्य वृषभरूपिणोऽसुरविशेषस्य कण्ठं कर्म जीवितं कर्तृ (दुःखेन) व्यतिक्रान्तम् । अपगतमित्यर्थः । --- कण्ठं कीदृशम् । पीनत्वेन दुर्ग्राह्यम् । अत एव विषमं विपर्यस्तं यथा स्यादेवं वलितं वक्रीकृतम् । आमोटितमिति यावत् । पीनत्वेन सम्यग् धर्तुमशक्यत्वात् । अत्र जीवितस्य दुःखव्यतिक्रमणे विषमवलनं हेतु: । तस्य च निष्ठुरपरिग्रहणम् । तस्य च दुर्ग्राह्यत्वम् । इत्युत्तरोत्तरं प्रति पूर्वपूर्वस्य हेतुत्वमिति हेतुपरम्परालंकारः । किं च विषमवलनाद् ऋजुमार्गालाभेन जीवितस्य कण्ठाद् दुःखेन निर्गमो बहिर्गमनं
पुण्यहेतुरित्याशयेनेव सदु:खं निष्क्रमणमासीदित्युत्प्रेक्षा व्यज्यते । 103.360. Vide SK S.No. (*7.7) supra.
107.361. Vide SK S.No. (157.74) supra. 108.361. Vide SK S.No. (25.47) supra. 111.362. Vide SK S.No. (160.74) supra. 112.362. Vide SK S.No. (161.75) supra. 113.362. Vide SK S.No. (162.75) supra. 115.363. Vide SK S.No. (164.75) supra.
116.363. Vide SK S.No. (165.75) supra.
117.363. सकला उद्योतिता अर्थात् कीर्त्या वसुधा येन । समस्तजीवलोके विस्तीर्यमाण: प्रतापश्च येन । तादृशे
कीर्तिप्रतापशालिनि सत्पुरुषे विधानं प्रकृतकार्यानुकूल: प्रकारस्तच्चिन्तापतितापि मलिनता चिरं न तिष्ठति । रवाविव । अत्र पक्षे उद्योत: किरणस्तच्छालित्वमुद्योतितत्वम् । प्रताप औष्ण्यम् । विहाणशब्दो देश्यां प्रभातवाची । तथा च यथोक्तविशेषणद्वयवति रवौ विभात (- प्रभात-) पतिता मलिनता प्रकाशविशेषाभावाश्चिरं न तिष्ठति तथा सत्पुरुषेऽपि । तथा च विशेषणद्वयविशिष्टो रामः प्रकार चिन्तयन्नित्थमास्ते । तत्स्फूर्ती मालिन्यमपि जयात् स्वकार्यं च कुर्यादपकर्षमात्रमस्माकं स्यादिति भाव: ॥