________________
Prakrit Verses in Sanskrit Works on Poetics
343
(DSs, p. 243) says : वतु तथा विच्छड्डो निवहः । ऋद्धिवाची तु विच्छड्डो 'विच्छर्द' शब्द-भव: । Jagaddhara (comm. p. 422) says विच्छर्द: प्रवाह: । उक्खडिअ (? उक्खलिअ) = उत्खण्डित-cut off.
... Read Jagaddhara's comments : ... इह मुखमेव कमलं तत्पतितम् । कीदृशम् । प्रस्फुरितमोष्ठपुटमेव दलं पत्रं यत्र तत् । तत्कालविगलितरुधिरमेव मधुप्रवाहो यत्र तत् । विच्छर्द : प्रवाह : | उत्खण्डितकण्ठ एव नालो यत्र तत् । स्फुटदशना एव केसराणि यत्र तत् । इह मुखस्यौष्ठादीनि पद्मस्य पत्रादीन्यवयवास्ते च सहजा इति तत्प्राधान्यादिदं सहजावयवरूपकम् । --- पृ. ४२२.
159. Bhoja cites this skandhaka as an example of one of the varieties of Sāvayava
Rūpaka, called Ahāryāvayava. Read Jagaddhara's comments :
ततोऽनन्तरं दशानन एव भुजग: सर्प: सोऽतिभयानको जात: । कीदृश: । कुम्भकर्णप्रतिवचनमेव दण्डस्तेन परिघट्टित उत्थापितोऽमर्ष एव घोरविषं यस्य सः । गलितश्च्युतोंशुकं वस्त्रमेव निर्मोक: कञ्चुको यस्य सः । इह प्रतिवचनादीनामवयवत्वाभावाद् आहार्यावयवता, तेषामेव प्राधान्यादाहार्यावयवरूपकमिदम् । पृ. ४२३.
160. Bhoja cites this skandhaka from Setu as an example of Adhāravad Rūpakam.
Read Jagaddhara's comments : इह गगनमेव समुद्रः, तत्र तारा एव मुक्ता: तासां प्रकर: समूह: शोभते । कीदृशः । विशेषेणातिशयेन शुद्धकिरण:। रजनी एव वेला तीरभूमिस्तत्र लग्न: संबद्धः । स्फुटविघटिता व्यक्तीभूय विदीर्णा मेघा एव शक्तिसंपुटाः, तैर्विमुक्तश्च । इह सादृश्ये रजन्यादीनां प्रतीयमानता वेलादीनामभिधीयमानता, शुद्धरूपकता उपमाद्यसंभेदात् । गगनस्याधारतयेदमाधारवद्रूपकम् । - पृ. ४२५.
161. Bhoja cites this skandhaka as an example of Nirādhāra Rūpakam. Read .. Jagaddhara's comments : इह धूमसमूहा एतादृशा विज्ञायन्ते (? विनिर्यन्ति) । कीदृशाः । वनराज्या
वनपङ्क्ते: केशहस्ता: केशकलापा एव, 'पाश: पक्षश्च हस्तश्च कलापार्था: कचात्परे ।' इत्यमर : । कुसुमायुधस्य कामस्य सुगन्धि-चलद्-ध्वजपटा एव चन्द्रकिरणानां मूहूर्त-मेघा एव तमसामन्धकाराणां प्रतिहस्ता: प्रतिनिधयः । --- इह धूमोत्पीडस्य वनराजिकेशकलापादेराधारत्वानुपपत्तेर्निराधाररूपकमिदम् । सरस्वती, पृ. ४२५.
162. Bhoja cites this skandhaka from Setu as an example of Sāvayava Saṁkīrṇań
(Rupakam). Read Jagaddhara's comments : इह नभस्तलं शोभते पितामहस्य ब्रह्मण उत्पत्तिपद्ममिव तस्य पद्मयोनित्वात् । कीदृशम् । रविकरा: सूर्यकिरणा एव केसरनिकरा यत्र तत् । धवलाभ्राणि श्वेतमेघा एव दलसहस्राणि तैः परिगतमन्वितम् । मधुमथस्य विष्णोर्दर्शनयोग्यम्, शरदि तस्य जागरणादस्य च रम्यत्वात् । पद्मपक्षेऽपि नाभिकमलतया मधुरिपुदर्शनयोग्यता । --- अत्र रविकर - धवलाभ्र - सहस्रयो : सहजाहार्यावयवयो: केसरनिवहत्वेन दलसहस्रत्वेन च रूपणात् पङ्कज - नभस्तलयोरवयविनोरूपमानोपमेयत्वाच्च सावयवसंकीर्णरूपकमिदम् । पृ. ४२७.