________________
Iluminator of Jaina Tenets
[ Lustre v ८. यथाप्रवृत्त्यपूर्वाऽनिवृत्तिभेदात् त्रिधा।
अनाद्यनन्तसंसारपरिवर्ती प्राणी गिरिसरिद्ग्रावघोलनान्यायेन आयुर्वर्जसप्तकर्मस्थितौ किंचिन्यूनैककोटिकोटि-सागरोपम मितायां' जातायां येनाध्यवसायेन दुर्भेद्यरागद्वेषात्मकग्रन्थिसमीपं गच्छति, स यथाप्रवत्तिकरणम् । एतद्धि भव्यानामभव्यानां चानेकशो भवति । येन अप्राप्तपूर्वाध्यवसायेन ग्रन्थिभेदनाय उद्युङ्क्ते, सोऽपूर्वकरणम् । अपूर्वकरणेन भिन्ने ग्रन्थौ येनाध्यवसायेन उदीयमानाया मिथ्यात्वस्थितेरन्तर्मुहर्तमतिक्रम्य उपरितनी चान्तर्मुहुर्तपरिमाणामवरुध्य तद्दलिकानां प्रदेशवेद्याभावः क्रियते सोऽनिवृत्तिकरणम् । तवेद्याभावश्चान्तरकरणम् ।' तस्य प्रथमे क्षणे आन्तमौहतिकमौपशमिकसम्यक्त्वं भवति। .. कश्चित् पुनः अपूर्वकरणेन मिथ्यात्वस्य पुञ्जत्रयं कृत्वा शुद्धपुञ्जपुद्गलान् वेदयन् प्रथमत एव क्षायोपशमिकं सम्यक्त्वं लभते ।
कश्चिच्च मिथ्यात्वं निर्मूलं क्षपयित्वा क्षायिकं प्राप्नोति। 8. yathāpravrtty-apūrvā'nivrtti-bhedāt tridhā.
___anādyananta-samsara-parivarti prani girisarid-grava-gholananyāyena āyurvarja-saptakarmasthitau kincinnyūnaikakoţi-kotisāgaropama-mitāyāṁjātāyāṁ yenādhyavasāyena durbhedya-rågadvesātmaka-granthisamipam gacchati, sa 'yathapravrttikaranam. etaddhi bhavyānām abhavyānāṁ cānekaśo bhavati.
yena aprāptapūrvādhyavasāyena granthibhedanāya udyuňkte, so'purvakaranam.
apūrvakaraṇena bhione granthau yenādhyavasāyena udiyamā. nāyā mithyātvasthiter antarmuhūrtam atikramya uparitanīm cântarmuhûrtaparimāņām avarudhya taddalikānāṁ pradeśavedyābhāvah kriyate so'nivrttikaranam.
tadvedyābhāvaś cāntarakaraṇam. १ पल्योपमासंख्येयभागन्यूनककोटिकोटिसागरोपममितायां । 1 palyopamāsamkheyabhāga-nyānaikakotikoti-sāgaropamamitāyām. २ उपशमसम्यक्त्वात् प्राग्वेद्योत्तरवेद्यमिथ्यात्वपुञ्जयोरन्तरकारित्वाद् अन्तरकरणम् । 2 upaśamasamyaktvät prägvedyottaravedya-mithyätvapuñjayor antarakäritväd
antarakaranam. ३ शुद्धम्, अर्धशुद्धम्, अशुद्धं च क्रमशः सम्यक्त्वमोहनीयम्, मिश्रमोहनीयं, मिथ्यास्व
मोहनीयमिति नामकं पुजत्रयम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org