________________
सत्यवादिनो ब्रह्मचारिणः । प्रकृत्या भद्राः सरलाः ॥ धन्यास्ते गृहिणोऽपि गुणाढ्या: । परोपकारे तरलाः ॥ सद्गुण० ॥५॥
न्यायोपार्जितलक्ष्म्या पुण्यं । गुप्तं ये कुर्वन्ति ॥ घ्नन्ति दुःखं दीनजनानां । धन्यास्ते मुवि सन्ति ॥ सद्गुण० ॥६॥
भजन्ति ये भ्रातृभावनां । रक्षन्ति सनीतिम् ॥ धन्यास्ते मार्गानुसारिणः । पालयन्ति कुलरीतिम् ॥ सद्गुण ॥७॥
सुखिनो गुणिनो भवन्तु सर्वे । सुहृदो वा स्युरमुहृदः ॥ नश्यन्तु जगतो दुःखानि । सैष प्रमादो मे हृदः ॥ सद्गुण ॥८॥
110
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org