________________
चन्द्रप्रज्ञप्तिसूत्रे द्वीपः अरुणवरः समुद्रः १०, अरुणवरावभासो द्वीपः अरुणवरावभासः समुद्रः ११, कुण्डलो द्वीपः, कुण्डलोदः समुद्रः १२ कुण्डलवरो द्वीपः, कुण्डलवरोदः समुद्रः १३, कुण्डलवरावभासो द्वीपः कुण्डलवरावभासः समुद्रः १४, सर्वेषां विष्कम्भः परिक्षेपः ज्योतिष्काणि पुष्करोदसागरसदृशानि ॥सू०॥४॥
व्याख्या—'ता पुक्खरोदे णं समुद्दे' इत्यादि, 'ता' तावत् 'पुक्खरोदे णं समुद्दे' पुष्करोदः खलु समुद्गः यः पुष्करवर द्वीपं सर्वतः समन्तात् परिवेष्टय स्थितः स समुद्रः 'किं समचक्कवालसंठिए' किं समचक्रवालसंस्थितः ? 'जाव' यावत् यावत्पदेन किं विषमचक्रवालसंस्थितः ? इति प्रश्नः, पुष्करवरोदः समुद्रोऽपि पूर्वोक्तान्यसमुद्रवत् समचक्रवालसंस्थितः किन्तु 'नो विसमचकवालसंहिए' विषमचक्रवालसंस्थितो न । तस्य चक्रवालविष्कम्भपरिक्षेप विष यकप्रश्नसूत्रं सुगमम् । उत्तरमाह- 'ता संखेज्जाइं जोयणसहस्साई' संख्येय सहस्रयोजनपरिमितस्तस्यायामविष्कम्भः, संख्येयसहस्रयोजनपरिमितएकपरिधिरित्युत्तरम् । एवं ज्योतिष्कदेवानां चन्द्रसूर्यनक्षत्रग्रहगणतारा अपि संख्येया एव व्याख्येयाः । प्रश्नसूत्राणि उत्तरसूत्राणि च 'संख्येया' इति पदमधिकृत्य व्याख्येयानि, यथा-'ता पुक्खरोदे णं समुद्दे केबइया चंदा पभासिंह वा, ३, इति प्रश्नसूत्रमुक्त्वा 'ता पुक्खरोदेणं समुद्दे संखेज्जा चंदा पभासिंसु वा, ३, एवमुत्तरसूत्रं वाच्यम् । एवमेव सूर्यनक्षत्रग्रहगणताराणामपि प्रश्नसूत्राणि उत्तरसूत्राणि च स्वयमहनीयानि । अथातनं चतुर्थ वरुणबरद्वीपमारभ्य चतुर्दश कुण्डलवरावभाससमुद्रपर्यन्तानां द्वीपानां समुद्राणाम् आयामविष्कम्भः परिधिज्योतिष्कं च सर्वमपि संख्यात योजनसहस्रत्वेनैव व्याख्येयम् । सर्वेऽपि द्वीपा समुद्राश्च समचक्रवालसंस्थिता एव न तु विषमचक्रवालसंस्थिताः, इत्येवमधिकारमाश्रित्य चतुर्दशानां द्वीपानां चतुर्दशानां समुद्राणां चातिदेशेन नामान्याह-'एएणं अभिलावेणं' इत्यादि, 'एएणं अभिलावेणं' एतेन पुष्करवरद्वीपपुष्करोदसमुद्रसदृशेनैव अभिलापेन 'वरुणवरे दीवे वरुणोदे समुद्दे' वरुणवरो द्वीपः वरुणोदः समुद्रः इत्येवं चतुर्थद्वीपसमुद्रादारभ्य चतुर्दश द्वीपसमुद्रपर्यन्तं सर्व सुगम' तत्सूत्रपाठादेवावगन्तव्यम् । तदेवाह सूत्रकारः-'सव्वेसिं' इत्यादि, 'सन्वेसिं विक्खभपरिक्खेवो जोइसाई पुक्खरोदसागरसरिसाई' सर्वेषामेषां चतुर्थाद्वीपसमुद्राच्चतुदर्श द्वीपसमुद्रपर्यन्तानां विष्कम्भपरिक्षेपः, ज्योतिष्काणि सर्वाणि पुष्करोदसमुद्रसदृशानि व्याख्येयानि । तथाहि-संख्येयसहस्रयोजनो विष्कम्भः संख्येयसहस्रयोजनः परिक्षेपः, संख्येया एव प्रत्येकं चन्द्रसूर्यनक्षत्रग्रहगणतारा वाच्या इति । साम्प्रतं द्वीपसमुद्रगतदेवानां समुद्रगतजलानां च भावना क्रियते
पुष्करोदे च समुद्रे जलमतिस्वच्छं पथ्यं जात्यं तथ्यपरिणामं स्फटिकवर्णनिभं प्रकृत्या उदकरसम् । तत्र श्रीधरः श्रीप्रभश्चेति नामानौ द्वौ देवो आधिपत्यं परिपालयतः, तत्र श्रीधरः पुष्करोदसमुद्रस्य पूर्वार्धाधिपतिः, श्रीप्रभश्चापराधिपतिरिति । अस्य पुष्करोदसमुद्रस्यायामो