SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ बन्द्राप्तिप्रकाशिकाटीका० प्रा०१९ सू.१ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यादिकम् ६७९ तद् गुणितं तत्तद्वोपसमुद्रस्थित चन्द्रपरिमाणेन गुणनं कर्त्तव्यम्, गुणनेन यावन्ति नक्षत्राणि यावन्तो ग्रहाः यावत्यश्च तारा लभ्यन्ते तावत्प्रमाणा नक्षत्रादयस्तत्र तत्र द्वोपे समुद्रे वा विज्ञातव्याः । तथाहि-यथा लवणसमुद्रे नक्षत्रादि परिमाणं ज्ञातुमिष्टं, लवणसमुद्रे च चत्वार श्चन्द्राः, तत एकस्य चन्द्रस्य परिवारभूतानि यान्यष्टाविंशतिर्नक्षत्राणि तानि चतुर्भिर्गुण्यन्ते जातं द्वादशोत्तरं शतम् (११२) एतावन्ति लवणसमुद्रे नक्षत्राणि भवन्ति । एवं ग्रहा अष्टाशीतिरेकस्य शशिनः परिवारभूतास्ततस्ते चतुर्भि र्गुणिता जायन्ते द्वि पञ्चाशदधिकानि त्रीणि शतानि (३५२), एतावन्तो लवणसमुद्रे ग्रहा भवन्ति । एवमेव एकस्य शशिनः परिवारभूतास्ताराः कोटी कोटीनां षट्षष्टिः सहस्राणि नवशतानि पञ्चसप्तत्यधिकानि (६६९७५) सन्ति, तानि चतुर्भिर्गुणिते-जातानि-कोटी कोटीनां वे लक्षे, सप्तषष्टि सहस्राणि, नव शतानि (२, ६७, ९००, ०००००००, ०००००००) एतावत्यो लवणसमुद्रे तारागणा कोटी कोट्यः, एवं रूपा च नक्षत्रादीनां संख्या प्राक् प्रोक्तैव । अनयैव रीत्या सर्वेष्वपि द्वीपसमुद्रेषु नक्षत्रादि संख्यापरिभावनीयेति ॥३४॥ साम्प्रतं मनुष्यक्षेत्रबहिर्गतानां चन्द्रादीनां वक्तव्यतामाह'बहिया ३' इत्यादि, 'माणुसनगस्स बहिया ३' मानुषनगस्य मानुषोत्तरपर्वतस्य बहिस्तु 'चंदसराणं जोण्हा' चन्द्रसूर्याणां ज्योत्स्ना तेजः 'अवट्ठिया' अवस्थिता सदाकाले समाना भवति न तु न्यूनाधिकत्वं तस्याः । अयं भावः-सूर्यास्तत्र सदैवाऽनत्युष्णतेजसस्तिष्ठन्ति मनुध्यलोके सूर्या यथा ग्रीष्मकालेऽत्युष्णतेजसो भवन्ति न तथा तत्र जातुचिदपि अत्युष्णतेज सो भवन्ति । चन्द्रा अपि सदैवानतिशोतलेश्याकाः यथा मनुष्यक्षेत्रे शिशिरकाले चन्द्रा अतिशीतप्रकाशा भवन्ति न तथा तत्र कदाचिदपि अतिशीतप्रकाशा भवन्ति किन्तु सर्वदा समान स्थितिका एव तिष्ठन्ति अत्र नक्षत्रयोगमाह-'चंदा अभोईजुत्ता' इत्यादि, तत्र मनुष्यक्षेत्रा द्वहिः-सर्वेऽपि चन्द्रा' सर्वदैव 'अभीईजुत्ता' अभिजियुक्ताः अभिजिन्नक्षत्रेण योगं युञ्जाना एव तिष्ठन्ति । 'सूरा पुण हुति पुस्सेहि' सूर्याः पुन भवन्ति पुष्यैः, तत्र सूर्याश्च सर्वे सर्वदैव पुष्यनक्षत्रैरेव युक्तास्तिष्ठन्ति, न तु तत्र तेषां कदाचनापि मण्डलगत्या भ्रमणं भवति, ते सदाऽवस्थिता एव तिष्ठन्तोति ॥३५॥ साम्प्रतं चन्द्रसूर्ययोः परस्परमन्तरमाह - 'चंदाओ' इत्यादि 'चंदाओ सूरस्स य' चन्द्रात् सूर्यस्य, एवं सूर्याच्चन्द्रस्य चान्तरम् ‘पण्णास सहस्साइं तु जोयणाणं अणूणाई' पञ्चाशत्सहस्राणि (५००००) योजनानि अन्यूनानि परिपूर्णानि योजनानां परिपूर्ण पञ्चाशत्सहस्रयोजनपरिमितं चन्द्रसूर्ययोः परस्परमन्तरम् 'होइ' भवतीति ॥३६॥ अथ सूर्य सूर्ययो श्चन्द्रचन्द्रयो श्चान्तरमाह-'सूरस्स य सूरस्स य' इत्यादि 'बहिं तु माणुसनगस्स' मानु षोत्तरपर्वतस्य बहिः 'सूरस्स य सूरस्स य ससिणो ससिणो य' सूर्यस्य सूर्यस्य परस्परं चन्द्रस्य चन्द्रस्य च परस्परमन्तरम् 'जोयणाणं सयसहस्सं' योजनानां शतसहस्रं-लक्षयोजनपरिमित मन्तरं भवतीत्यर्थः । तथाहि-तत्र चन्द्रान्तरिताः सूर्याः सूर्यान्तरिताश्चन्द्राः व्यवस्थिताः, द्वयोश्चन्द्र
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy