SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ ६६४ चन्द्रप्रज्ञप्तिसूत्रे स्थितः । पुनर्गौ तमः पृच्छति–'ता लवणसमुद्दे' इत्यादि स लवणसमुद्रश्चक्रवालविष्कम्भेण परिक्षेपेण च कियत्परिमितोऽस्ति ? इति प्रश्नः । भगवानाह- 'ता दो जोयणसयसहस्साई' इत्यादि, 'ता' तावत् 'दो जोयणसयसहस्साई चक्कवालविक्खंभेणं' स लवणसमुद्रः चक्रवाल विष्कम्भपरिमाणेन लक्ष द्वययोजनपरिमितो वर्तते, परिक्षेपेण च 'पण्णरस' इत्यादि, पञ्चदश योजनलक्षाणि एकाऽशीतिश्च सहस्राणि एकोनचत्वारिंशदधिकं शतं च (१५८११३९) किञ्चिद्विशेषोनं किञ्चिन्यूनम्, एतावत्परिमितो वर्तते । तथाहि-लवणसमुद्रस्य चक्रवालविष्कम्भः एकतोऽपरतश्चेति द्विधातो द्वि द्वियोजन लक्षपरिमित इति जातानि चत्वारि लक्षाणि, पुनश्च तस्य सर्वमध्ये जम्बूद्वीपो वर्त्तते, स लक्षयोजनपरिमित इति सर्वसंमेलने जातानि पञ्च लक्षाणि (५०००००), एतेषां वर्गे कृते जायन्ते पञ्च विंशतिस्तदुपरि च दश शून्यानि (२५००००००००००), अस्य राशे र्दशभिर्गुणने जातानि पञ्चविंशते-रूपरि-एकादश शून्यानि (२५०००००००००००), एतस्य राशेर्वर्गमूलानयने लभ्यन्ते-पञ्चदश लक्षाणि, एकाशीतिः सहस्राणि, अष्टात्रिंशदधिकमेकं शतं च (१५८११३८) शेषमुद्धरति-पड विंशतिर्लक्षाणि, चतुर्विशतिः सहस्राणि, षट् पञ्चाशदधिकानि नव शतानि (२६२४९५६) छेदराशिरेकत्रिशल्लक्षाणि, द्वाषष्टिः सहस्राणि, षट् सप्तत्यधिके द्वे शते (३१६२२७६), एतदपेक्षया योजनमेकमूनं लभ्यते तत उक्तम्'सयं च उणयालं किंचि विसेसूणं' इति चन्द्रादीनां विषये गौतमः पृच्छति-ता लवणेण' इत्यादि, लवणसमुद्रे कति चन्द्राः प्राभासयन् ३, कति सूर्या अतापयन् ३, कति नक्षत्राणि योगमयुञ्जन् ३, कति ग्रहाश्चारमचरन् ३, कति ताराः शोभाम् अशोभन्त ३, इति प्रश्नः । भगवानाह-'ता लवणे णं' इत्यादि 'ता' तावत् 'लवणेणं समुद्दे' लवणे खलु समुद्रे 'चत्तारि चंदा' चत्वारश्चन्द्राःप्राभासयन् वा ३, एवं चत्वारः सूर्या अतापयन् वा ३, द्वादशकं नक्षत्रशतं योगमयुङ् वा ३, त्रीणि शतानि द्विपञ्चाशदधिकानि ग्रहाश्चारमचरन् वा ३, द्वे लक्षे, सप्तषष्टिः सहस्राणि, नव शतानि तारागण कोटी कोट्यः शोभामशोभन्त वा ३, । तथाहि-नक्षत्राणि अष्टाविंशति रेकैकस्य चन्द्रस्य परिवारत्वेन सन्ति, लवणे चत्वारश्चन्द्रा इति अष्टाविंशति श्चतुर्भिर्गुण्यते जातानि द्वादशोत्तर शत संख्यकानि (११२) नक्षत्राणि । ग्रहा अष्टाशीतिरिति चतुर्भिगुणने द्विपञ्चाशदधिकानि त्रीणि शतानि (३५२) ग्रहाणां भवन्ति । तारा गण कोटी कोटीनां षट् षष्टिः सहस्राणि, नव शतानि पञ्च सप्तत्यधिकानि (६६९७५) चतुर्भिर्गुणने जायते यथोक्तं ताराप्रमाणम् । अत्र लवणसमुद्रस्य :विक्षेपस्य चन्द्रदीनां च प्रमाणप्रतिपादिकास्तिस्रो गाथाः सुगमा इति न व्याख्यायन्ते, इति जीवभिगमोक्त पाठव्याख्या ।। । अथ लवणसमुद्र को द्वीपः परिवेष्टय तिष्ठतोत्याह –'ता लवणसमुद्द' इत्यादि 'ता' तावत् 'लवणसमुई' लवणसमुद्रं धातकीषण्डो नाम द्वीपो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् परिक्षिप्य परिवेष्टय तिष्ठति अस्य संस्थानविषये गौतमः पृच्छति-'ता धायईसंडेणं दीवे'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy