SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ चन्द्र प्रज्ञप्तिसूत्रे भणितव्यानि, आलापकप्रकारस्तु सुगमत्वात् स्वयमूहनीय इति । कियत्पर्यन्तमित्याह 'जाव उतरासाढा' यावत् उत्तराषाढानक्षत्रं तावद् भणितव्यानीति । अथ ग्रहमधिकृत्य योगविचारः क्रियते- 'ता' 'जया णं' इत्यादि 'ता' तावत् 'जया णं' यदा खलु 'चंदं गइसमावणं' चन्द्रं गतिसमापन्नमपेक्ष्य ' गहे ' ग्रहः ' गइ समावण्णे' गतिसमापन्नो भवति तदा स ग्रहः ' पुरत्थिमाए भागाए' पौरस्त्याद् भागात् पूर्वभागेन प्रथमतश्चन्द्रं 'समासाए ' समासादयति 'समासाइत्ता' समासाद्य च 'चं देणं सद्धि' चन्द्रेण सार्द्धं जोयं जोएइ' यथा सम्भवं योगं युनक्ति 'जोय जोइत्ता' योगं युक्त्वा 'जोयं अणुपरियट्ट ' योगमनुपरिवर्त्तयति चन्द्रयोगात् परावर्त्तते 'अणुपरियहित्ता' अनुपरिवर्त्य 'विप्पजहाइ' विप्रजहाति स्वेन सह योगं परित्यजति, किंबहुना विगय जोई यावि भवइ' विगतयोगी योगरहितश्चापि भवति २ । अथ सूर्यमधिकृत्य नक्षत्रयोगो विचार्यते – ' ता जयाणं सूरियं' इत्यादि, 'ता' तावत् 'जयाणं' यदा खलु 'सूरियं' सूर्य ' गइसमावणं' गतिसमापन्नमपेक्ष्य 'अभीईणक्खत्ते' अभिजिन्नक्षत्रं 'गइसमावण्णे' गतिसमापन्नं भवति तदा तदाभिजिन्नक्षत्रं प्रथमतः 'पुरत्थिमाए - भागाए' पौरस्त्याद् भागात् पूर्वभागतः सूर्यं 'समासारइ' समासादयति प्राप्नोति 'समासाइत्ता' समासाद्य ‘चत्तारि अहोरते' चतुरः परिपूर्णान् अहोरात्रान् पञ्चमस्य चाहोरात्रस्य 'छच्चमुहुत्ते ' षट् मुहूर्त्तान् यावत् 'सूरिएण सद्धि' सूर्येण सार्द्ध 'जोयं जोएइ' योगं युनक्ति एतावत्प्रमाणकालपर्यन्तं सूर्येण सार्द्धमभिजिन्नक्षत्रं चारं चरतीतिभावः 'जोयं जोइत्ता' योगं युक्त्वा षण्मुहूर्त्ताधिकचतुरहोरात्रपर्यन्तं सूर्येण सार्द्धं स्थित्वाऽन्तिमसमये 'जोयं अणुपरियदृइ' योगमनुपरिवर्त्तयति सूर्ययोगात् परावर्तते 'जोयं अणुपरियट्टित्ता' योगमनुपरिवर्त्य श्रवण नक्षत्रस्य योगं समर्प्य 'विप्पजहाइ' विप्रजहाति स्वेन सह योगं परित्यजति, एतावदेव न 'विगयजोईयावि भवइ' विगतयोगि योगरहितं चापि भवति । ' एवं ' एवम् अनेन प्रकारेण यस्य यावन्तोऽहोरात्रादिकास्तावन्तोऽत्र वाच्याः तथाहि - ' अहोरत्ता छ एक्कवीस मुहुत्ताय' अहोरात्राः षट् एक विंशतिश्च मुहूर्त्ता चन्द्रयोगमपेक्ष्य पञ्चदशमुहूर्त्तात्मकानां शतभिषगू- भरण्यार्द्राऽश्लेषा-स्वातिज्येष्ठाख्यानां षण्णां नक्षत्राणां वाच्याः 'तेरस अहोरत्ता बारसमुहुत्ताय' त्रयोदशाहोरात्रा द्वादशमुहूर्त्ताश्च त्रिंशन्मुहूर्त्तात्मकानां श्रवण घनिष्ठा- पूर्वभाद्रपदा - रेवत्यश्विनी - कृत्तिका - मृगशीर्ष- पुष्यमघा - पूर्व फाल्गुनी- हस्त चित्रा - ऽनुराधा-मूल- पूर्वाषाढाख्यानां पञ्चदशानां नक्षत्राणां वाच्याः । 'वीस अहोरता तिष्णिमुहुत्ताय' विंशतिरहोरात्राः त्रयो मुहूर्त्ताश्च पञ्चचत्वारिंशन्मुहूर्त्तात्मकानाम् - उत्तराभाद्रपदा-रोहिणी-पुनर्वसु- तराफाल्गुनी विशाखोत्तराषाढाख्यानां षण्णां नक्षत्राणां वाच्याः । अभिजितस्तु अहोरात्रादिकाः पूर्वंसूत्रे एव कथिताः । एवं 'सव्वे भाणियव्वा' सर्वाणि नक्षत्राणि सूर्ययोगमाश्रित्य क्रमेण भणितव्यानि 'जाव' यावत् यावत्पदेन उत्तराषाढापर्यन्तानि । तत्रोत्तरा ६०६
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy