________________
चरति 'तेरस सत्तट्टि भागाई' अन्ये त्रयोदश सप्तषष्टिभागास्ते 'जाई' यान् 'चंदे' चन्द्रः 'अप्पणो परस्स य चिणं' आत्मना परेण च चीर्णान् 'पडिचरइ' प्रतिचरति । 'एयावया' एतावता परिभ्रमणेन 'बाहिराणंतरे' बाह्यानन्तरमक्तिनं 'पच्चस्थिमिल्ले अद्धमंडले' पाश्चात्यमर्द्धमण्डलं 'समत्ते भवई' समाप्तं भवति । अथ पौरस्त्याचभागमाश्रित्याह- 'ता तच्चायणगए चंदे' तावत् तृतीयायनगतश्चन्द्रः 'पुरथिमिल्लाए भागाए' पौरस्त्याद् भागात् 'पविसमाणे' प्रविशन् 'बाहिर तच्चस्स' बाह्यतृतीयस्य सर्वबाह्यादाक्तनस्य 'पुरस्थि मिल्लस्स अद्धमंडलस्स' पौरस्त्यस्यार्द्धमण्डलस्य 'इगतालीसं सत्तद्विभागाई' एकचत्वारिंशतं सप्तषष्टिभागान् 'जाई चंदो' यान् चन्द्रः 'अप्पणो परस्स य चिण्णं' आत्मना परेण च चीर्णान् 'पडिचरइ' प्रतिचरति ततः परं परचीर्ण त्रयोदशभाग-स्वपर चीर्णत्रयोदश भागे ति षड् विंशति भागान् पुनश्चरतीति प्रदश्यते-'तेरस सत्तट्टि भागाई' अन्ये ते त्रयोदश सप्तषष्टि भागाः सन्ति 'जाइं चंदे' यान् चन्द्रः 'परस्स चिण्णं पडिचरइ' परेण चीर्णान् प्रतिचरति, पुनरन्ये च ते–'तेरस सत्तहि भागाई' त्रयोदश सप्तषष्टिभागा सन्ति 'जाई चंदे' यान् चन्द्रः 'अप्पणो परस्सय चिण्णं पडिचरई' आत्मना परेण च चोर्णान् प्रतिचरति 'एयावया' एतावता 'बाहिरतच्चे' बाह्य तृतीयं सर्व बाह्यान्मण्डलादाक्तनं तृतीयं 'पुरथिमिल्ले अदमंडले' पौरस्त्यमर्द्धमण्डलं 'समत्ते भवइ' समाप्तं भवति । सप्तषष्टे भगानां परिपूर्णजातत्वात् । मथ पाश्चात्यभागमाश्रित्य चन्द्रचारमाह-'ता तच्चायणगए' इत्यादि, 'ता' तावत् 'तच्चायभगए चंदे' तस्मिन्नेव तृतीयायने गतश्चन्द्रः 'पच्चत्थिमाए भागाए' पाश्चात्याद् भागात् 'पविसमाणे' प्रविशन् 'बाहिर चउत्थस्स' सर्व बाह्यान्मण्डलादर्वाक्तनस्य ‘पच्चथिमिल्लस्स अद्धमंडलस्स' पाश्चात्यस्यार्द्धमण्डलस्य 'अद्धसत्तट्ठिभागाई' अर्द्ध सप्तषष्टिभागान् तथा 'सत्तद्विमागंच' एकं च सप्तषष्टिभागं 'एक्कतीसधा छित्ता' एकत्रिंशद्धा छित्वा एकस्य सप्तषष्टिभागस्य एकत्रिंशतं भागान् कृत्वा तन्मध्यात् ते 'अट्ठारसभागाइं अष्टादशभागाः 'जाई चंदे' - यान् चन्द्रः 'अप्पणो परस्स य चिण्णं' अत्मना परेण च चीर्णान् 'पडिचरइ' प्रतिचरति । "यावया' एतावता परिभ्रमणेन 'बाहिरचउत्थे' बाह्यचतुर्थ सर्वबाह्यान्मण्डलादर्वाक्तनंचतुर्थ 'पच्चथिमिल्ले अद्धमंडले' पाश्चात्यमर्द्धमण्डलं 'समत्ते भवई' समाप्तं भवति । एवं च तत्परिसमाप्तौ चान्द्रो मासः परिपूर्णो जात इति । साम्प्रतं पूर्वोक्तमेव सर्वं प्रदर्शयन् चन्द्रमासमतमुपसंहारमाह-एवं खलु' इत्यादि एवं खलु' एवमुक्तेन प्रकारेण खलु निश्चितं 'चंदेणं मासेणं' चान्द्रेण मासेन चंदे' चन्द्रः 'तेरस चउप्पण्णगाई' त्रयोदश-त्रयोदश संख्यकानि, चतुष्पञ्चाशत्कानि चतुष्पञ्चाशद्राशिरूपाणि 'दुवे तेरसगाई' द्वे त्रयोदशके के ते इत्यमाह'जाइं चंदे' ये चन्द्रः 'परस्स चिण्णं' परेण चीर्णे 'पडिचरइ' प्रतिचरति, वर्तमानकालनिर्देशः