________________
५८८.
चन्द्रप्राप्तिसूत्रे
समये 'छ चउप्पण्णाई' षट् चतुष्पञ्चाशत्कानि जाइं चंदे' यानि चन्द्रः 'परस्स चिणं' परेण सूर्यादिना चीर्णानि 'पडिचरई' प्रतिचरति, 'छतेरसगाई' षटू त्रयोदशकानि 'चंदे' चन्द्रः 'अप्पणो चिण्णं' आत्मना चीर्णानि 'पडिचरइ' प्रतिचरति । अत्रेयं भावना-पश्चिमे भागे षट्स्वपि तृतीयादिषु एकान्तरितेषु त्रयोदशपर्यन्तेषु अर्द्धमण्डलेषु सप्तषष्टिभागप्रविभक्तेषु प्रत्येक चतुष्पञ्चाशत्कं सप्तषष्टिभागसत्कं सप्तषष्टिभागानित्यर्थः चरति, षट् च त्रयोदश सप्तषष्टि भागान् स्वयं चीर्णान् चरतीति । पुनश्च एकान्तरितत्वेन पञ्चदशस्य मण्डलस्य 'अवरगाई' अपरके तदतिरिक्ते अन्ये 'दुवे तेरसगाई' द्वे त्रयोदशके 'जाइ चंदे' ये चन्द्रः 'केणइ' केनापि सूर्यादिना 'असामण्णगाई" असामान्यके अनाचीर्णपूर्वे 'सयमेव' स्वयमेव 'पविसित्ता'२ प्रविश्य २ 'चारं चरई' चारं चरति । अत्र पृच्छति-'कयराइ खलु इत्यादि, 'कयराइ' कतरे के खलु 'ताई दुवे तेरसगाई' ते द्वे त्रयोदशके 'जाई चंदे' ये चन्द्रः 'केणइ असामण्णगाई' केनापिं असामान्यके अनाचीर्णपूर्वे 'सयमेव पविसियत्ता २ चारं चरइ' स्वयमेव प्रविष्य २, चारं चरति । अत्रोत्तरमाह-'इमाई' खलु' इत्यादि 'इमाइं खल्लु' इमानि वक्ष्यमाणानि खलु 'ताई दुवे तेरसगाई' ते द्वे त्रयोदशके 'जाई चंदे केणइ असामण्णगाई सयमेव पविसित्ता २ चारं चरई' ये चन्द्रः केनापि असामान्यके स्वयमेव प्रविश्य २ चारं चरति । ते एव दर्शयति—'तं जहा' इत्यादि 'तं जहा' तद्यथा ते यथा-'सब्बभंतरे घेव मंडले १ सव्ववाहिरे चेव मंडले, सर्वाभ्यन्तरे चैव मण्डले सर्वबाह्ये चैव मण्डले २ उपसंहारमाह--'एयाणि' इत्यादि, 'एयाणि' एते. अनुपदं प्रदर्शिते खलु 'ताणि दुवे - तेरसगाई' ते द्वे त्रयोदशके 'जाइं चंदे' ये चन्द्रः 'केणइ जाव चारं चरई' केनापि
असामान्यके स्वयमेव प्रविश्य २, चारं चरति । अत्र यत् द्वे त्रयोदशके कथिते तत्रैवं विज्ञेयम्तत्र यदेके त्रयोदशकं सर्वाभ्यन्तरे मण्डले तत् पाश्चात्यायनगतं पञ्चदशार्द्धमण्डलसत्कं वेदितव्यम् , तस्यैव संभवास्पदत्वात् द्वितीयं त्रयोदशकं सर्वबाह्ये मण्डले चरिष्यमाणं पर्यन्तवर्तिप्रतिपत्तव्यमिति ।
____ एषा एकं चन्द्रमधिकृत्य द्वितीयायनवक्तव्यता प्रोक्ता, ततो द्वितीयं चन्द्रमधिकृत्य द्वितीयायनवक्तव्यता एतदनुसारेणैव भावनीया । अत्रायं विशेषः तत्र प्रथमचन्द्रमाश्रित्य द्वितीयायने चन्द्रस्य प्रथम पूर्वभागान्निष्क्रमणं प्रोक्तम् अत्र द्वितीयचन्द्रमाश्रित्य द्वितीयायने प्रथमपश्चिमभागात् ततः पूर्वभागात् एवं वैपरीत्येन चन्द्रस्य निष्क्रमणं वाच्यम् तत्र पूर्व भागे षट् चतुष्पञ्चाशत्कानि परिचीर्णानि, षट् त्रयोदशकानि च स्वयं चीर्णानि चरतीति वक्तव्यम् । शेषं सर्वं पूर्ववदेव ज्ञातव्यमिति । अथ द्वितीयायनपरिसमाप्तिमाह--'एयावया' इत्यादि, 'एयावया' एतावता एतावत्कालेन चन्द्र द्वयचरणरूपेण समयेन 'दोच्चे चंदायणे'