________________
मण्डलस्य त्रयोदश सप्तषष्टिभागा ( १३/१३ ) इत्येवं प्रमाणं शोध्यते, तत्र चतुर्दशेभ्यस्त्रयोदश मण्डलानि शुद्धानि स्थितं शेषमेकम् (१), ततः अष्टभ्य एकत्रिंशद्भागेभ्यस्त्रयोदश सप्तषष्टिभागाः शोध्याः तथाहि-सप्तषष्टिरष्टमिर्गुण्यते, जातानि षट्त्रिंशदधिकानि पञ्चशतानि (५३६), त्रयोदश च एकत्रिंशता गुण्यन्ते जातानि व्युत्तराणि चत्वारिशतानि (४०३) एतानि अष्ट सप्तषष्टि गुणन प्राप्तेभ्यः षट्त्रिंशदधिकपञ्चशतेभ्यः (५३६) शोध्यन्ते, स्थितं शेषं त्रयस्त्रिंशदधिकं शतम् (१३३), तत एतत् सप्तषष्टि भागानयनाथै सप्तषष्टया गुण्यते, जातानिएकादशाधिकानि नवाशीति शतानि (८९११) एष छेद्यराशिः, मौलश्छेदक राशिरेकत्रिंशत् स सप्तषष्टया गुण्यते जाते सप्त सप्तत्यधिके द्वे सहस्र (२०७७) एष छेदकराशिः, ततश्छेद्यच्छेकराश्योः सप्तषष्टयाऽपवर्तना क्रियते सप्तषष्टया कृतायामपवत्तनायामागतश्छेद्यराशिस्त्रयास्त्रिशदधिकमेकं शतम् (१३३), छेदकराशिश्चागत एकत्रिंशत् (३१) ततोऽनेन छेदकराशिना छेधराशेः ( १३३ ) भागो हियते लब्धाश्चत्वारः सप्तषष्टिभागाः, शेषास्तिष्ठन्ति-नवेति एक त्रिंशच्छेदकृता नव एकत्रिंशदभागाश्चूर्णिकाभागा (१/-) तत आगतम् -- एकमर्द्धमण्डलम्,
६७३१ द्वितीयस्य चार्द्धमण्डलस्य चत्वारः सप्तषष्टिभागाः, एकस्य च सप्तषष्टिभागस्य नव एक त्रिंशद्भागाः। एतावत्परिमितं क्षेत्रं नाक्षत्रार्द्धमासात् चन्द्रश्चान्द्रेणार्द्धमासेन अधिकं चरतीति सिद्धम् । उक्तञ्च
“एगं च मंडलं मंडलस्स सत्तद्विभागा चत्तारि । नव चेव चुण्णियाओ, इगतीसकरण छेएण ॥१॥"
छाया--एकं च मण्डलं (अर्द्ध मण्डलम् ) मण्डलस्य (एकस्य चान्द्रमण्डस्य) सप्तषष्टिभागाश्चत्वारः। ... नव चैव चूर्णिकाः (भागाः) एकत्रिंशत् कृतेन छेदेन ॥इति ।
अत्र गणितप्रकरणे 'मण्डलं मण्डलं' इति कथितं तत्र सर्वत्र मण्डलशब्देन अर्द्ध मण्डलमिति वाच्यम् अत्रार्द्धमण्डलानामेव प्रकृतत्वादिति ।
तदेवमेकस्य चन्द्रायणस्य वक्तव्यता प्रोक्ता, साम्प्रतं द्वितीयचन्द्रायणवक्तव्यता प्रस्तूयते, तत्र यश्चन्द्रः प्रथम चन्द्रायणे दक्षिणभागादभ्यन्तरं प्रविशन् सप्ताधमण्डलानि, उत्तरभागादभ्यन्तरं प्रविशन् षड् अर्द्धमण्डलानि, सप्तमस्य चादितः पञ्चदशरूपस्यार्द्धमण्डलस्य त्रयोदश सप्तषष्टि भागान् चरितवान् तमधिकृत्य द्वितीयायनभावना करिष्यते, तत्रायनस्य मण्डलक्षेत्रपरिमाणं त्रयोदश अर्द्धमण्डलानि, चतुर्दशस्य चार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागा इति । तत्र