SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ मालियाशिकाटीकाप्रा. १३. सू. ३ मण्डलेषु चन्द्रार्धमासचारनिरूपम् ५४३ पूर्वेक्तानि खलु 'ताई' तानि 'छ अद्धमंडलाई' षड्अर्द्धमण्डलानि 'अद्धमंडलस्स' एकस्य चार्द्ध मण्डलस्य 'तेरसत्तद्विभागाई' प्रयोदश्श सप्तषष्टिभागाः, 'जाई चंदे' यानि चन्द्रः 'उत्तराए भागाए' उत्तरस्माद् भागात् 'पविसमाणे' प्रविशन् 'चारं चरइ' चारं चरति । दक्षिणभागादभ्यन्तरप्रवेशे, एवमुत्तरभागादभ्यन्तरप्रवेशे च यानि अर्द्धमण्डलानि प्रदर्शितानि तद्विषयाभावना चेत्थम्-- सर्वबाह्ये पञ्चदशे मण्डले परिभ्रमणेन प्रणमधिकृत्य परिपूर्णे पाश्चात्य युगपरिसमाप्ति र्भवति ततोऽपरयुगप्रथमायनप्रवृत्तौ प्रथमेऽहोरात्रे एकश्चन्द्रो दक्षिणभागादभ्यन्तरं प्रविशन् द्वितोयमण्डलमाक्रम्य चारं चरति, स च पाश्चात्य युगपरिसमाप्तिदिवसे उत्तरस्यां दिशि चारं चरितवान् सोऽत्र वेदितव्यः । ततः एतस्मात् द्वितीयात् मण्डलात् शनैः शनैरभ्यन्तरं प्रविशन् द्वितीयेऽहोरात्रे उत्तरस्यां दिशि सर्व बाह्यान्मण्डलादभ्यन्तरं तृतीयमर्द्धमण्डलमाक्रम्य चारं चरति । तृतीयेऽहोरात्रे दक्षिणस्यां दिशि चतुर्थमर्द्धमण्डलम् , चतुर्थेऽहोरात्रे उत्तरस्यां दिशि पञ्चममर्द्धमण्डलम् , पञ्चमेऽहो रात्रे दक्षिणायां दिशि षष्ठमर्द्धमण्डलम् षष्टेऽहोरात्रे उत्तरस्यां दिशि सप्तममर्द्धमण्डलम्, सप्तमेऽहोरात्रे दक्षिणस्यां दिशि अष्टममर्द्धमण्डलम् , अष्टमेऽहोरात्रे उत्तरस्यां दिशि नवममर्द्रमण्डलम्, नवमेऽहोरात्रे दक्षिणस्यां दिशि एकादशममण्डलम् , एकादशेऽहोरात्रे दक्षिणस्यां दिशि द्वादशमर्द्धमण्डलम् , द्वादशेऽहोरात्रे उत्तरस्यां दिशि त्रयोदशमर्द्धमण्डलम् त्रयोदशेऽहोलात्रे दक्षिणस्यादिशि चतुर्दशमर्द्धमण्डलम् , चतुर्दशेऽहोरात्रे उत्तरस्यां दिशि पञ्चदशस्यार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागानाक्रम्य चारं चरति । ततः किमित्याह सूत्रकारः-'एयावया' इत्यादि, 'एयावयाच' एतावता च कालेन 'पढमे चंद!यणे समत्ते भवइ' प्रथमं चन्द्रायणं समाप्तं भवति । चन्द्रायणं हि नक्षत्रार्द्धमासप्रमाणं भवति, ततश्च नाक्षत्रेण अर्द्ध मासेन चन्द्रचारे त्रयोदशमण्डलानि, चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागाः (१३-२) भवन्ति । तत्कथं ८७ लभ्यते ! त्रैराशिकगणितेन लयते तथाहि- एकस्मिन् युगे चन्द्रमण्डलानि अष्ट षष्टयधिकानि सप्तदशशतानि (१७६८) भवन्ति, चन्दायणानि च चतुस्त्रिंशदधिकशतसंख्यकानि (१३४) भवन्ति ततो यदि चतुस्त्रिंशदधिकेन अयनशनेन (१३४) सप्तदशशतानि अष्ट षष्टयधिकानि(१३६८) मण्डलानि लभ्यन्ते तत एकेन अयनेन किं लभ्यते ? राशित्रयस्थापना-१३४।१७६८। १। ततोऽन्स्येन राशिना मध्यराशौ गुणिते सति जातस्तावानेव (१७६८) ततस्तस्यायेन राशिना (१३४) भागो हियते, लब्धास्त्रयोदश (१३) शेषास्तिष्ठन्ति षड्विंशतिः (२६)ततश्छेधछेदक
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy