________________
३५६
चन्द्रप्राप्तिसूत्रे
दिवसानां 'पण्णरसणाम घेज्जा' पञ्चदशनामधेयानि नामानि 'पण्णत्ता' प्रज्ञप्तानि 'तं जहा ' तद्यथा तानि यथा - ' - ' पु०बंगे' इत्यादि पुव्यंगे पूर्वाङ्ग प्रतिपदा दिवसस्य पूर्वाङ्ग इति नाम १। सिद्धमणोरमे य' सिद्धमनोरमश्च द्वतीयादिवसस्य सिद्धमनोरमा इति नाम 'ततो' ततः तदनन्तरं 'मणोहरो चेव ' मनोहरश्चैव तृतीयादिवसस्य मनोहर इति नाम ३ । अनेन क्रमेण चतुर्थी दिवसस्य यशोभद्रो नाम, इत्यारभ्य पञ्चदशी दिवसस्य - पूर्णिमा दिवसस्य अमावास्या दिवसस्य च उपशम इति नाम, इत्यन्तं सर्वं स्वयमूहनीयम् । अत्र पूर्णिमा अमावास्या चेति द्वयोर्ग्रहणार्थ सूत्रकृता 'पण्णरसी दिवसे' पञ्चदशी दिवसः इत्युक्तम् तयोः प्रतिपक्षं पञ्चदशत्त्वात् । शेषं स्पष्टम् ।
अथ रात्रीणां नामान्याह - ता कहते राईओ' इत्यादि । 'ता' तावत् ' कहं' कथं केन क्रमेण 'ते' त्वया 'राईओ' त्र्यः 'आहिया' आख्याताः 'ति वएज्जा' इति वदेत् पदतु कथयतु हे भगवन् ! एवं गौतमेन पृष्टे भगवानाह 'ता एगमेगस्स णं' इत्यादि । 'ता' तावत् ' एगमे गस्स णं पक्खस्स' एकैकस्य पक्षस्य 'पण्णरस' २ पञ्चदश पञ्चदश 'राईओ पण्णत्ताओ' रात्र्यः प्रज्ञप्ताः 'तं जहा' तद्यथा - ता यथा - 'पडिवया । ई' प्रतिपदा रात्री ! 'बितियाराई' द्वितीया रात्री २, 'जाव' यावत् 'पण्णरसीराइ' पञ्चदशी रात्री, अत्रापि यावत्पदेन तृतीया रात्री ३ चतुर्थी रात्री ४, इत्यादिक्रमेण 'चतुर्दशीरात्री' इत्यन्तं संग्राह्यम् । अत्र द्वितीयारात्री' इत्यादिपदैः द्वितीया - तृतीयादि तिथयो बोध्या न तु संख्येति । अथ रात्रीणां नः मान्याह - 'ता एयासि णं' इत्यादि । 'ता' तावत् 'एयासि णं' एतासां वक्ष्यमाणानां 'पण्णरसण्ह' पञ्चदशानां 'राई' रात्रीणां 'पण्णरस नामधेज्जा पण्णत्ता' पञ्चदश नामधेयानि नामानि प्रज्ञप्तानि 'तं जहा ' तद्यथा--- उत्तमा य' उत्तमा च प्रथमा- प्रतिपत्सम्बन्धिनी रात्री रुत्तमा- उत्तमानाम्नी भवति । 'सुणक्खत्ता' सुनक्षत्रा द्वितीया सम्बन्धिनी रात्री सुनक्षत्रा कथ्यते २ । एवं क्रमेण तृतीयात आरभ्य पञ्चदशी रात्री 'देवाणंदा' देवानन्दा इत्यन्तं स्वयमूहनीयम् । अस्य व्याख्या छायागम्याsतो न वित्रियते ॥ सू० १ ॥
॥ इति चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका व्याख्याया
दशमस्य प्राभृतस्य चतुर्दश प्राभृत
प्रभृतं समाप्तम् ॥१०॥१४ ॥
दशमस्य प्राभृतस्य पञ्चदशं प्राभृतप्राभृतम् ।
1
गतं चतुर्दशं प्राभृतप्राभृतम् तत्र पञ्चदशानां दिवसानां पञ्चदशानां रात्रीणां च नामानि प्रदर्शितानि । अथ पञ्चदशं प्राभूतप्राभृतं प्रारभ्यते अत्र दिवसतिथि रात्रितिथीनां च नामानि विक्तुं सूत्रमाह- - 'तं कहते तिही' इत्यादि ।
―――