SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ कामिणकाशिका टीका०प्रा. १०प्रा. प्रा. ९ सू०१ नक्षत्राणां तारासंख्यानिदर्शनम् I पंचतारे १४ । पुस्से० तितारे १५ अस्सेसा० छत्तारे १६। महासत्ततारे १७। . पुव्वकग्गुणी दुतारे १८ । एवं उत्तराफग्गुणी वि दुतारे १९ । हत्थे० पंचतारे २०। . चित्ता० एगतारे २१ । साई० एगतारे २२ । विसाहा० पंचतारे २३ । अग्युराहा० पंचतारे २४ । जेट्ठा तितारे २५ । मूले एगारसतारे २६ । पुव्वासादा० चाउतारे २७ । उत्तरा साढा णक्खत्ते कइतारे षण्णत्ते ? चउतारे पण्णत्ते ॥ सू०.१ ॥.. दसमस्स पाहुडस्स नवमं पाहुडपाहुडं समत्तं ॥१०-९॥ छाया-तावत् कथं ते तारा. आख्यातम् ? इति वदेत् । तावत् एतेषां खलु अष्टाविंशतेनक्षत्राणाम् अभिजिन्नक्षत्रं कतितारं प्रज्ञप्तम् ? गौतम ! त्रितारं प्रज्ञप्तम् १ श्रवणो नक्षत्र कतितारं प्रशप्तम् ? त्रितारं प्राप्तम् २। धनिष्ठा नक्षत्रं कतितारं प्रश तम् ? पश्चतारं प्रशप्तम् ३ । शतभिषग्नक्षत्र कतितारं प्रज्ञप्तम् ? शततारं प्रज्ञप्तम् ४ । पूर्वा प्रोष्ठपदानक्षत्रं कतितारं प्रक्षप्तम् ? द्वितारं प्रज्ञप्तम् ५ । एवम्-उत्तराप्रोष्ठपदापि ६ । रेवती नक्षत्रं कतितारं प्रज्ञप्तम् ? द्वात्रिंशत्तारं प्रज्ञप्तम् ७ । अश्विनी नक्षत्रं कतितारं प्रज्ञप्तम् ? त्रितारं प्रज्ञप्तम् ८ । एवं सर्वाणि (नक्षत्राणि) पृच्छयन्ते-भरणी० त्रितारम् ९। कृत्तिका षट् तारम् १० रोहिणो० पञ्चतारम् ११ । मृगशिरोन त्रितारम् १२। आ० एकतारम् १३ । पुनवेसु०पञ्चतारम् १४ । पुष्यो न त्रितारम् १५॥ अश्लेषा० षट्तारम् १६ । मघा०सप्ततारम् १७१ पूर्वाफाल्गुनी द्वितारम् १८। एवमुत्तराफाल्गुभ्यपि० द्वितारम् १९। हस्तो नपञ्चतारम् २० । चित्रा० एकतारम् २१॥ स्वातिन० एकतारम् २२॥ विशाखा पञ्चतारम् २३॥ अनुराधा० पञ्चतारम् २४। ज्येष्ठा० त्रितारम् २५। मूलो न० एकादशतारम् २६, पूर्वाषा ढा० चतुस्तारम् २७। उत्तराषाढानक्षत्र कतितारं प्राप्तम् ? चतुस्तारं प्रज्ञप्तम् ॥ मू०१ ॥ दशमस्य प्राभृतस्य नवम. प्राभृतप्राभृतं समाप्तम् १०-९॥ .. व्याख्या-गौतमः पृच्छति--ता कहं तारग्गे' इत्यादि । 'ता' तावत् 'कह' कथं--केन प्रकारेण 'ते' त्वया 'तारग्गे' तारग्रं--ताराप्रमाणम्-अष्टाविंशतिनक्षत्राणां तारा संख्या 'आहिए' आख्यातं कथितम् ? 'ति, इति 'बएज्जा' वदेत् वदतु कथयतु हे भगवन् ! तदेव प्रश्नयति-'ता' तावत् 'एएसिणं' एतेषां लोकप्रसिद्धानाम् 'अट्ठावीसाए' अष्टाविंशतेः अष्टाविंशतिसंख्यकानां खल 'णक्खत्ताणं' नक्षत्राणां मध्ये 'अभिईणक्खत्ते' अभिजिन्नक्षत्रं 'कइतारे' कतितार कियत्तारा युत्तं 'पण्णत्ते' प्रज्ञप्तम्--कथितम् ! भगवानाह--'गोयमा' हे गौतम । अभिजिन्नक्षत्रं "तितारे 'पण्णत्ते, त्रितारं तारात्रययुक्तं प्रज्ञप्तम् १ । 'सवणे णक्खत्ते श्रवणः श्रवणाभिधनक्षत्रं 'कतितारे' 'पण्णत्ते, कतितारं प्रज्ञप्तम् ! तितारे पण्णत्ते ? त्रितारं प्रज्ञप्तम् २। एवमनया रीत्या सर्वाण्यपिप्रश्नसूत्राणि निर्वचनसूत्राणि च स्वयं संयोज्य भणितव्यानि । व्याख्यातु अर्थस्य छायागम्यत्वान्न विवियते । सर्वनक्षत्रताराप्रमाणप्रतिपादकं जम्बूद्वीपप्रज्ञप्तिगतं गाथाद्वयमत्र प्रदश्यते-"तिग १ तिग २ पंचग ३ सय ४ दुग, ५ दुम ६ बत्तीसं ७ तिगं (तहतिगं ९ च) छ १० पंचग ११ विग १२ इक्कग १३,-पंचग १४ तिग १५ इक्कगं १६ चेव ॥१॥ सत्तग १७ दुग १८ दुग १९, पंचग २०, इक्कि २१ क्कग, २२ पंच २३ चउ २४ तिगं २५ चेव । इक्कारसग २६ चउक्कं २७, चउक्कगं २८ चेव तारग्गी ॥२३॥" इति।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy