________________
चन्द्रप्राप्तिसूत्रे कथ्यन्ते तानि द्वादश १२। उपकुलानीति किम् ? तत्राह-माससदृशनामकनक्षत्रेभ्यः पूर्वगतानि नक्षत्राणि यदि यान् मासान् समाप्ति नयन्ति तानि उपकुलानि कथ्यन्ते तान्यपि द्वादश १२। यानि पश्चानुपूर्ध्या तृतीयानि नक्षत्राणि यान् मासान् समाप्ति नयन्ति तानि कुलोपकुलानि कथ्यन्ते तानि च चत्वार्येव भवन्ति ४। तान्येव दर्शयामः-श्रविष्ठः, श्रावणो मासः प्रायः अविष्ठया घनिष्ठाअरपर्यायया समाप्तिमेतीति । श्रावणपूर्णिमायां यदि धनिष्ठा भवेत्तदा धनिष्ठानक्षत्रं कुलमुच्यते १, भाद्रपदपूर्णिमायां यदि उत्तराभाद्रपदा भवेत्तर्हि तत् कुलं कथ्यते २, एवम् आश्विनपूर्णिमायां यदि अश्विनी भवेत्तदा तन्नक्षत्रं कुलम् ३, कार्तिकर्णिमायां कृत्तिकानक्षत्रं कुलम् ४, मार्गशीर्षमासे मृगशिरो नक्षत्रं कुलम् ५, पौषपूर्णिमायां पुष्यनक्षत्रं कुलम् ६, माघपूर्णिमायां मघानक्षत्रं कुलम् ७, फाल्गुनपूर्णिमायाम् उत्तराफाल्गुनौनक्षत्रं कुलम् ८, चैत्रपूर्णिमायां चित्रा नक्षत्रं कुलम् ९, वैशाखपूर्णिमायां विशाखानक्षत्रं कुलम् १०, ज्येष्ठपूर्णिमायां मूलनक्षत्रं कुलम् ११, आषाढपूर्णिमायाम् उत्तराषाढानक्षत्रं कुलम् १२, एतानि द्वादशनक्षत्राणि कुलानि कथ्यन्ते । एतेभ्यः पूर्ववर्तीनि नक्षत्राणि यदि भवेयुस्तदो तानि उपकुलानि कथ्यन्ते, तथाहिश्रावणपूर्णिमायां श्रवणनक्षत्रं भवेत्तदा तद् उपकुलं कथ्यते १, एवं भाद्रपदपूर्णिमायां पूर्वाभाद्रपदा नक्षत्रमुपकुलम् २, आश्विनपूर्णिमायां रेवतीनक्षत्रमुपकुलम् ३, कार्तिकर्णिमायां भरणीनक्षत्रमुप कुलम् ४, मार्गशीर्षर्णिमायां रोहिणीनक्षत्रमुपकुलम् ५, पौषपूर्णिमायां पुनर्वसुनक्षत्रमुपकुलम् ६, माघर्णिमायाम् अश्लेषानक्षत्रमुपकुलम् ७, फाल्गुनर्णिमायां पूर्वाफाल्गुनीनक्षत्रमुपकुलम् ८, चैत्रपूर्णिमायां हस्तनक्षत्रमुपकुलम् ९, वैशाखपूर्णिमायां स्वातिनक्षत्रमुपकुलम् १०। ज्येष्ठपूर्णिमायां ज्येष्ठानक्षत्रमुपकुलम् ११, आषाढपूर्णिमायां पूर्वाषाढानक्षत्रमुपकुलम् १२, इति । यधुपकुलनक्षत्रात् पूर्ववर्तिनक्षत्रम् अर्थात् पश्चानुपर्ध्या प्रायो माससदृशनामककुलनक्षत्रात् पूर्ववर्ति तृतीयं नक्षत्रं पूर्णिमायां भवेत्तदा तत् कुलोपकुलं कथ्यते, तानि चत्वार्येव, सूत्रोपदिष्टानां चतु
मेव नक्षत्राणां श्रावण - भाद्रपद-पौष-ज्येष्ठरूपासु चतसृष्वेव पूर्णिमासु कादाचित्कत्वेन योगसंभवात् , तथाहि-श्रावणपूर्णिमायां यदि अभिजिन्नक्षत्रं भवेत्तदा तत् कुलोपकुलं कथ्यते १, एवं भाद्रपदपूर्णिमायां शतभिषग्नक्षत्रं कुलोपकुलम् २, पौषपूर्णिमायाम् आर्द्रा नक्षत्रं कुलोपकुलम् ३, ज्येष्ठर्णिमायां चानुराधानक्षत्र कुलोपकुलं कथ्यते ४, इति । उक्तश्च
मासाण सरिसनामा, हुंति कुला उवकुला उ हिटिमगा । हुंति पुण कुलोवकुला अभीइ-सय-अद्द-अणुराहा" ॥१॥ छाया–मासानां सदृशनामानि भवन्ति कुलानि उपकुलानि तु अधस्तनानि । भवन्ति पुनः कुलोपकुलानि अभिजित् १, शतभिषक् २, आर्द्रा ३ अनुराधा ॥१॥
'हिद्विमगा' इति अधस्तनानि अधोभागस्थितानि कुलनक्षत्रेभ्यो यानि पूर्व स्थितानि पश्चानु पूर्ध्या कुलनक्षोभ्यो द्वितीयानीत्यर्थः ।