SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २५४ चन्द्रप्रति तावत् स्वातिः खलु नक्षत्रं नक्तं भागम् अपार्धक्षेत्रं पञ्चदशमुहूर्त्तं तत्प्रथमतया सार्य चन्द्रेण सार्धं योगं युनक्ति इदं स्वातिनक्षत्रं नो लभते अपरं द्वितीयं दिवसं रात्रिमाक्रयापित्वात्. एवं खलु स्वातिर्नक्षत्रम् एकां रात्रिमेव यावत् चन्द्रेण सार्धं योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्त्तयति, योगम् अनुपरिवर्त्य प्रातः चन्द्रं विशाखायै समर्पयति २२ । 'विसाहा जहा उत्तराभद्दवया' विशाखा यथा, उत्तराभाद्रपदा तथा वक्तव्या, तथाहि - तावत् विशाखा खलु नक्षत्रम् उभयभागं द्वयर्धक्षेत्रं पञ्चचत्वारिंशन्मुहूर्त्त तत्प्रथमतया प्रातः चन्द्रेण सार्धं योगं युनक्ति, तदिवसम्, अपरां दिवसान्ते समागम्यमानां च रात्रिं ततः पश्चात्, रात्र्यनन्तरम् अपरं द्वितीयं दिवसम्, एवं खलु विशाखा नक्षत्रं द्वौ दिवसौ एकां च रात्रि यावत् चन्द्रेण सा योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्त्तयति, योगम् अनुपरिवर्त्य सायं चन्द्रम् अनुराराधायै समर्पयति । २३ ‘अणुराहा जहा घणिट्ठा' अनुराधा यथा धनिष्ठा कथिता तथा वाक्या, तदित्थम् - तावत् अनुराधा खलु नक्षत्रं पश्चाद्भागं सायंकालव्यापित्वात् समक्षेत्रं गत्रिदिवसरूपसंपूर्णक्षेत्रस्थायित्वात् अतएव त्रिंशन्मुहूर्त तत्प्रथमतया सायं चन्द्रेण सार्धं योगं युनक्ति, तां सकलां रात्रिं ततः पश्चात् रात्र्यनन्तरम् अपरं दिवसं यावत्तिष्ठति, एवं खलु अनुराधानक्षत्रम् एकां रात्रिम् एकं च दिवसं यावत् चन्द्रेण सार्धं योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्त्तयति, योगम् अनुपरिवर्त्य सायं चन्द्रं जेष्ठायै समर्पयति । २४ ' जेट्ठा जहा सयभिसया' ज्येष्ठा यथा शतभिषक् तथा वाच्या, सा चेत्थम् - तावत् ज्येष्ठा खलु नक्षत्रं नक्तं भागम् अपार्धक्षेत्रं पञ्चदशमुहूर्त्त तत्प्रथमतया सायं चन्द्रेण सार्धं योगं युनक्ति किन्तु नक्कं भागत्वात् नो लभते अपरं द्वितीयं दिवसं रात्रावेवास्य समाप्तिसद्भावात् एवं खलु ज्येष्ठानक्षत्रं एकां रात्रिमेव यावत् चन्द्रेण सार्धं योगं युनक्ति, योगं युक्त्वा योगम् अनुपरिवर्त्तयति, योगम् अनुपरिवर्त्य प्रातः चन्द्रं मूलाय समर्पयति २५ | 'मूलो जहा पुव्वाभद्दवया' मूलं यथा पूवाभाद्रपदा तथा वक्तव्यम् तथाहि - तावत् मूलं स्खलु नक्षत्रं पूर्वभागसमक्षेत्रं त्रिंशन्मुहूतप्रथमतया प्रातः चन्द्रेण सार्धं योगं युनक्ति, तत्सकलं दिवस ततः पश्चात् दिवसानन्तरम् अपराम् अग्रे समागम्यमानाम् अपरां रात्रिं यावत् एवं खलु मूलनक्षत्रम् एकं च दिवस एकां चरात्रि यावत् चन्द्रेण सार्धं योगं युनक्ति यक्त्वा योगम् अनुपरिवर्त्तयति योगम् अनुपरिवर्त्य प्रातः चन्द्रं पूर्वाषाढायै समर्पयति । २६ । 'पुन्त्रासादा जहा पुव्वाभद्दवया' पूर्वाषाढा यथा पूर्वाभाद्रपदा कथिता तथा पठनीया, तच्चैवम् तावत् पूर्वाषाढा खलु नक्षत्रं पूर्वभागं समक्षेत्र त्रिंशन्मुहूर्त्त तत्प्रथमतया प्रातः चन्द्रेण सार्धं योगं युनक्ति, तं दिवस ततः अपरां च रात्र यावत् चन्द्रेण सार्धं योगं युनक्ति योगं युक्त्वा योगम् अनुपरिवर्त्तयति, योगम् अनुपरिवर्त्य प्रातः चन्द्रम् उत्तराषाढायै समर्पयति ७। उत्तरासाठा जहा उत्तरभद्दवया' उत्तराषाढा "
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy