SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५० चन्द्रप्रज्ञप्तिसू सकलम् 'अवरं च राई' अपरां च रात्रिम् एकं दिवसं द्वितीयां च रात्रि यावत् योगं युनक्ति । उपसंहारमाह - ' एवं खलु' एवम् उक्तप्रकारेण खलु 'पुव्वापोट्ठवयाणक्खत्ते' पूर्वप्रोष्ठपदानक्षत्रम् 'एगं दिवसं एगं च राई' एकं दिवसमेकांच रात्रिं यावत् 'चंदेण सद्धिं जोयं जोएइ' चन्द्रेण सार्धं योगं युनक्ति, 'जोयं जोएत्ता' योगं युक्वा - 'जोयं अणुपरियहइ' योगमनुपरिवर्त्तयति 'जोयं अणुपरियट्टित्ता' योगमनुपरिवर्त्य ' पाओ' प्रातः प्रभातसमये 'चंदं' चन्द्रम् ' उत्तरापोडवयाणं' उत्तराप्रोष्ठपदायै- उत्तराभाद्रपदायै 'समप्पेइ' समर्पयति ||५|| 'ता' तावत् ततः 'उत्तरापोह - वया खलु णक्खत्ते' उत्तराप्रोष्ठपदा स्खलु नक्षत्रम् ' उभयभागं' उभयभागं दिवसरात्रिरूपोभयस्थायि 'दिवडूढखेत्ते द्व्यर्धक्षेत्रं सार्धेकाहोरात्रक्षेत्रम् अतएव 'पणयाली समुहुत्ते' पञ्चचत्वारिंशन्मुहूर्त्तं 'तप्पढमयाए' तत्प्रथमतया प्रथमं 'पाओ' प्रातः प्रभातसमये 'चंदेण सद्धि जोयं जोए ' चन्द्रेण सार्धं योगं युनक्ति 'जोयं जोएत्ता' योगं युक्त्वा 'तं सकलं दिवस' तं सकलं दिवस तदिवसानन्तरम् 'अवरं च राई' अपरां दिवससमाप्त्यनन्तरं जायमानां रात्रिं 'तओ पच्छा' ततः पश्चात् रात्रिसमाप्त्यनन्तरं जायमानम् 'अवरं दिवस' अपरं द्वितीयं दिवसं यावत् चन्द्रेण सार्धं तिष्ठति, एतदेवोपसंहाररूपेण स्पष्टीकरोति 'एवं खलु' इत्यादि, ' एवं ' एवम् उक्तरीत्या स्खलु निश्चयेन 'उत्तरापोट्ठवया णक्खत्ते' उत्तराप्रोष्ठपदा नक्षत्रं 'दो दिवसे एगं चराई' द्वौ दिवसौ एकः प्रथमयोग करणदिवसः, द्वितीयः राज्यनन्तरं जायमानो दिवसः एवं द्वौ दिवसौ एकां च रात्रि दिवसद्वयमध्यगतां रात्रिं यावत् 'चंदेण सद्धिं जोयं जोएइ' चन्द्रेण सार्धं योगं युनक्ति 'जोयं जोइता' योगं युक्त्वा, 'जोयं अणुपरियटूटइ' योगमनुपरिवर्त्तयाति, 'जोयं अणुपरियट्टित्ता' योगमनुपरिवर्त्य 'सायं' सायं सन्ध्याकाले 'चंद' चन्द्रं 'रेवईणं' रेवत्यै 'समप्पे ' समर्पयति । ६ । 'ता' तावत् ततः 'रेवई खलु णक्खत्ते' रेवती खलु नक्षत्रं 'पच्छंभागे' पश्चाद्भागं सायंकालव्यापित्वात् 'समखेत्ते' समक्षेत्र परिपूर्णाहोरात्ररूपक्षेत्रस्थायित्वात् अतएव 'तीसं मुहुत्ते ' त्रिशन्मुहूर्त्त तत् 'तप्पढमयाए' तत्प्रथमतया प्रथमं 'सायं' सायं सन्ध्यासमये 'च'देण सद्धिं जोयं जोएइ' चन्द्रेण सार्धं योगं युनक्ति योगं प्राप्नोति, 'तओ पच्छा' ततः पश्चात् तद्राज्यनन्तरम् 'अवरं दिवस' अपरं द्वितीयं दिवसं यावत् चन्द्रेण सार्धं तिष्ठति । तदेव स्पष्टयति - ' एवं खलु' इत्यादि, 'एवं खलु' अनेन प्रकारण 'रेवईणक्खत्ते' रेवती नक्षत्रं 'एगं राई' एकां रात्रि योगप्रारम्भरात्रिम् 'एगं च दिवस' एकं च द्वितीय दिवस यावत् 'चंदेण सद्धिं' चन्द्रेण सार्धं 'जोय जोएइ' योगं युनक्ति, 'जोयं जोएत्ता' योगं युक्त्वा 'जोयं अणुपरियहइ' योगम् अनुपरिवर्त्त - यति, 'जोयं अणुपरियहित्ता' योगमनुपरिवर्त्य 'सायं' सायं काले 'चंद' चन्द्रम् 'अस्सिणीणं अश्विन्यै 'समध्येइ' समर्पयति । 'ता' तावत् ततः 'अस्सिणी खलु णक्खत्ते' अश्विनी खलु नक्षत्रां 'पच्छं भागे' पश्चाद्भागं सायंकाले चन्द्रेण सह युज्यमानत्वात् 'समखेत्ते ' समक्षेत्रं परिपूर्ण शन्निन्दिव
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy