________________
चन्द्राप्तिप्रकाशिका टीका प्रा०९सू०२ पौरुषीछायायाः प्रमाणनिरूपणम् २२५ पूर्वस्यां दिशि स्थापितकाष्ठभागमुपगता छाया १४, 'पच्छिमकट्ठभागोवगया' पाश्चात्य काष्ठभागोपगता एवं पाश्चात्ये सूर्यमधिकृत्य पश्चिमायां दिशि स्थापितकाष्ठभागमुपगता छाया १५, 'छायाणुवादिणी' छायानुवादिनो छायानुवादकारिणी छाया प्रमाणकारिणी छाया १६, 'कहानुवादिणी' काष्ठानुवादिनी काष्ठप्रमाणकारिणी छाया १७,छायाइकंपदीहा सगरच्छाया' छायादि कम्पदीर्धा शकटच्छाया छायादिकम्पनकारिणीत्वेन दीर्घा लम्बा शकरच्छाया गन्त्री छाया 'तस्थ' तत्र तस्यां छायायां खलु 'इमा' इयं वक्ष्यमाणा 'अट्टविहा' अष्टविधा अष्टप्रकारा 'गोलच्छाया' गोलाकारा वर्तुला छाया 'पण्णत्ता' प्रज्ञप्ता, 'तं जहा' तद्यथा-'गोलच्छाया' 'गोलच्छाया-गोलवद्वर्तुला छाया १८, अवड्ढगोलच्छाया' अपार्धगोलच्छाया - अर्धगोलछाया १९, 'गोलगोलच्छाया' गोलगोलच्छाया गोलैर्बहुभिगोलैमिलित्वा यो निष्पादित एको गोलः स गोलगोलः, तस्य छाया वलयाकारा २०, अवढगोलगोलच्छाया' अपार्धगोलगोलच्छाया अर्धगोलच्छाया काचनिर्मित बालक्रीडनकगोलाकारा २१, 'गोलावलिच्छाया' गोलावलि. च्छाया- गोलानाम्-अनेकगोलानां या आवलिः पंक्तिः सा गोलावलिः, तस्याश्छाया मध्याह्नसूर्याकारा २२ 'अवड्ढगोलावलिच्छाया' अपार्धगोलावलिच्छाया-अर्धोलावलिच्छाया पूर्णिमा मध्यरात्रिवर्तिचन्द्राकारा २३, 'गोलपुंजच्छाया' गोलपुञ्जच्छाया, गोलानां पुञ्जः-समूहः तस्य छाया गम्भीरगर्ताकारा २४, 'अवड्ढगोलपुजच्छाया' अपार्धगोलपुआच्छाया; गोलसम्हस्या तस्य छाया अर्धगम्भीरगर्ताकारा २५, इति ॥सू० ४॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगधपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहुच्छत्रपति कोल्हापुरराजप्रदत्त "जैनशास्त्राचार्य" पदभूषित -कोल्हापुर राजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलालवति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका
ख्यायां व्याख्यायाम् नवमम् प्राभृतं समाप्तम् ॥५॥
॥ श्रीरस्तु ॥