________________
पतिलाशिका टीका प्रा०९ सू०३ पौरुषीछायाविषये स्वमनिरूपणम् २२२ भगवानुत्तरमाह-'ता' इत्यादि, 'ता' ताक्त् 'ति भागे' त्रिभागे दिवसस्य भागत्रये गए वा" गते वा व्यतीते वा 'सेसे वा' शेषे वा अवशिष्टे वा, दिवसस्य 'भागऋये गते' इति एक स्मिन्नन्तिमे भागे 'भागत्रये शेषे' इति दिवसस्यादिमे एकस्मिन् भागे अपार्धपौरुषी छाया भक्तीति भावः । पुनः प्रश्नयति—'ता' तावत् 'पोरसी गं छाया पौरुषी खलु संपूर्णपुरुष प्रमाणा छाया 'दिवसस्स' दिवसस्य 'किं गए वा सेसे वा' किं गते वा शेषे वा भवति ? अर्थः पूर्ववत् भगवानाह–'ता' तावत् 'चउभागे' दिवसस्य चतुर्भागे भागचतुष्टये गते वा, व्यतीते वा अस्तमनसमये इत्यर्थः 'सेसे वा' शेषे वा दिवसस्य भागचतुष्टयेऽवशिष्टे उद्गमनसमये इत्यर्थः संपूर्णपुरुषप्रमाणा छाया भवतीति । इयं छायाऽन्यत्र सर्वाभ्यन्तरमण्डलगतं सूर्यमाश्रित्य प्रोक्ता, उक्तश्च- "पुरिस-ति संकू पुरिससरीरं वा तो पुरिसे निप्पन्ना पोरिसी, एवं सव्वस्स वत्थुणो जया सयप्पमाणा छाया भवइ तया पोरिसी हवइ, एवं पोरिसीपमाणं उत्तरायणस्स अंते, दक्षिणायणस्स आइए इक्कम्मि दिणे हवइ, अओ परं अद्धएगसहिभागा अंगुलस्स दक्षिणायणे बदति. उत्तरायणे हस्संति । एवं मण्डले मण्डले अन्ना पोरिसी'' इति छाया-पुरुष इति शङ्खः, पुरुषशरीरं वा, ततः पुरुषे निष्पन्ना पौरुषी एवं सर्वस्य वस्तुनो यदा स्वप्रमाणा छाया भवति तदा पौरुषी भवति, एवं पौरुषीप्रमाणम् उत्तरायणस्य अन्ते, दक्षिणायनस्य आदौ एकस्मिन् दिने भवति, अतः परम् अधैंकषष्टिभागा अंगुलस्य दक्षिणायने वर्धन्ते, उत्तरायणे हासति, एवं मण्डले मण्डले अन्या पौरुषी, इति । अत इदं सकलमपि पौरुषीविभागपरिणामकथनं सूर्यस्य सर्वाभ्यन्तरमण्डलचारसमयमाश्रित्य विज्ञेयम् । तथा पुनः प्रश्नयति-'ता' तावत् 'दिवाढपोरसी गं' छाया, द्वयर्धपौरुषी खलु द्वितीयायाः पौरुष्या अर्ध यत्र सा द्वयर्धा, सा चासौ पौरुषी चेति तथा सार्धे क पुरुषप्रमाणा पौरुषीत्यर्थः, एतादृशी छाया 'दिवसस्स' दिवसस्य 'किं गते का सेसो वा' किं-कतमे भागे गते वा अवशिष्टे वा भवतीति प्रश्नः । उत्तरमाह 'ता' तावत् 'पंचमभागे' पञ्चमभागे 'गते वा सेसे वा' गते वा शेषे वा भवति, दिवसस्य पञ्चभागाः कल्प्यन्ते तत्र पञ्चमे भागे द्वयर्धपौरुषी छाया मवतीति भावः । ‘एवं' एवम् अनेन पूर्वोक्तेन क्रमेणा अग्रेऽपि 'अद्धपोरिसिं' अर्धपौरुषी प्रत्येकस्मिन् प्रश्ने 'छोढुं २' क्षिप्त्वा २ संवर्ध्य संवर्येत्यर्थः 'पुच्छा' पृच्छा प्रश्नः कर्त्तव्या, तथा प्रत्येकस्मिन् उत्तरवाको 'दिवसस्स' दिवसस्य 'भाग' भागमेकं 'छोटु २' क्षिप्त्वा २ संवर्ध्य २, 'वागरणं' व्याकरणम् उत्तरं कर्त्तव्यम् । तच्चैवम् – “बिपोरिसी णं' छाया दिवसस्स किं गए वा सेसे वा ? ता छब्भागे गए वा सेसे वा । ता अड्ढाइज्जयोरिसी णं छाया दिवसस्स किं गए वा सेसे वा ?, ता सत्तभागे गए वा सेसे वा" इत्यादिरीत्या सूत्रालापकाः स्वयमूहनीयाः-कियत्पर्यन्त मित्याह