________________
। श्रीवीतरागाय नमः ।
जैनाचार्य - जैनधर्मदिवाकर - पूज्य - श्री - घासीलालवतिविरचितया चन्द्रज्ञप्तिप्रकाशिकाख्यया व्याख्यया समलङ्कृतम्श्री - चन्द्र प्रज्ञाप्तिसूत्रम् ।
मङ्गलाचरणम्
नम्रीभूत पुरन्दरादिमुकुट, -भ्राजन्मणिच्छायया,
चित्रानन्दकरी सदा भगवती यस्याङ्घ्रिलक्ष्मीः परा । सद्विज्ञान - निरन्तसिन्धुलहरी, - मग्नाः स्वकर्मक्षयं,
कृत्वाऽनन्त सुखस्य धाम भविनः प्रापुः श्रये तं जिनम् ॥१॥
विमलः केवलाssलोक, - प्रभासंभारभासुरः ।
त्रिजगन्मुकुरो धीरो, वीरो विजयतेतराम् ॥२॥ श्रीसुधर्मा महावीर - लब्धरत्नोज्ज्वलो गणी ।
निबबन्ध तदुक्तार्थे, नमस्तस्मै दयालवे ॥३॥ अथैतत्करुणालब्ध, –विवेकामृतबिन्दुना ।
तन्यते घासिलालेन, 'चन्द्रज्ञप्तिप्रकाशिका' ॥४॥
पूज्य ईश्वरलालच, गणिवय हि विश्रुतः । चन्द्रप्रज्ञप्तिवृत्तिश्च तत्स्मृत्यर्थ विरच्यते ॥५॥
अथ सूत्रकारोsविघ्नेन शास्त्रसमाष्ट्यर्थम् इष्टसिद्ध्यर्थं च प्रथम मिष्टदेवताप्रीत्यर्थं तत्स्तव - माह - 'जय' इत्यादि ।
मूलम् — जयइ नवनलिणकुवलय - वियसियसयवत्तपत्तलदलच्छो । वीरो गइंदमयगलसललियगयविकमो भयवं ॥ १ ॥
छाया - जयति नवनलिन कुवलयविकसितशत पत्रपत्रलदलाक्षः । वीरो गजेन्द्रमदकलसललितगतविक्रमो भगवान् ||१||
व्याख्या - अत्र स्तवो द्विविधः - गुणोत्कीर्त्तनरूपः, साक्षात्प्रणामरूपश्च । तत्र साक्षात्प्रणाम - रूषः स्तवः साम्प्रतकाले नैव संपद्यते, सम्प्रति तीर्थकरस्याविधमानत्वात् । यत् स्थापनातीर्थकरस्य