SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ चन्द्रमाप्तिसूने 'तस्थ णं' तत्र षोडशसु प्रतिपत्तिवादिषु खलु 'जे ते' ये ते केचित् प्रथमाः 'एवमाइंसु' एवं वक्ष्यमाणप्रकारेण माहुः कथयन्ति 'ता' तावत् 'समचउरंससंठिया' समचतुरस्रसस्थिता समचतुरस्रसंस्थानसंस्थिता 'चंदिमसूरियसंठिई' चन्द्रसूर्यसंस्थितिः ‘पण्णत्ता' प्रज्ञप्ता इति । 'एएणं' एतेन अनुपदं पूर्वकथितेन 'नएणं' नयेन अभिप्रायेण 'नेयव्वं ज्ञातव्यम् अस्माकं मतेऽपि चन्द्रसूर्यसंस्थितिः समचतुरस्रसंस्थानसंस्थिता कथिता एतस्या एव सत्यत्वात् , अतः 'नो चेव णं इयरेहि' नैव खलु इतरैः शेषपश्चदशप्रतिपत्तिवादिनां नयैः अभिप्रायैश्चन्द्रसूर्यसंस्थितिर्ज्ञातव्या तेषां मिथ्यारूपत्वादिति । पूर्व चन्द्रसूर्यसंस्थितिः समचतुरस्रसंस्थानसंस्थितेति भगवता प्रदर्शितम् , मा च कथं संगच्छते ? इति प्रदर्यते, तथाहि-इह सर्वेऽपि कालविशेषाः सुषमसुषमादयो युगमूलाः, युगम्य चादौ श्रावणे मासे कृष्णपक्षस्य प्रतिपदि प्रातरुदयसमये एकः सूर्यो दक्षिणपूर्वस्या मित्याग्नेयकोणे वर्त्तते, तद्भिन्नो द्वितीयः सूर्यः पश्चिमोत्तरस्यामिति वायव्यकोणे वर्त्तते । एवं चन्द्रश्च तत्समये एको दक्षिणपश्चिमायामिति नैऋत्यकोणे वर्तते, तदन्यस्तु उत्तरपूर्वस्यामिति ऐशान्यकोणे वर्तते तस्माद् युगस्यादौ चन्द्रसूर्याः समचतुरस्रसंस्थानसंस्थिता भवन्तीत्यतो भगवता चन्द्रसूर्ययोः संस्थितिः समचतुरस्रसंस्थिता प्रतिपादिता । यश्चात्र मण्डलापेक्षया चन्द्रयोः संस्थितिविषये वैषम्यं लभ्यते यथा तस्मिन् समये सूर्यो सर्वाभ्यन्तरमण्डले चारं चरत', चन्द्रौ च तदा सर्वबाह्यमण्डले वर्तेते तेन चन्द्रयोः संस्थितिः समचतुरस्रसंस्थिता न भवेत तत्तु अल्पमिति कृत्वा सूत्रकृता न विवक्षिता, यतः सुषमासुषमादिरूपाणां समस्तकालविशेषाणामादिभूतस्य युगस्यादौ समचतुरस्रसंस्थिता चन्द्रसूर्ययोः संस्थितिर्भवति तत एतेषां संस्थितिः समचतुरस्रसंस्थानतया वर्णिता । अन्यथा वा स्व स्व सम्प्रदायानुसारेण समचतुरस्रसंस्थितिर्विचारणीयेति ॥सू० १॥ अथ पूर्वप्रतिज्ञातां तापक्षेत्रसंस्थितिं प्रतिपादयन्नाह–'ता कहं ते तावक्खेत्तंसठिई' इत्यादि। मूलम्-ता कहं ते तावक्खेत्तसठिई आहिया ? ति वएज्जा, तत्थ खल इमाओ सोलस पडिवत्तीओ पण्णत्ताओ तं जहा-तत्थ णं एगे एव माहंसु-ता गेहसंठिया तावक्खेत्तसंठिई पण्णत्ता ।। एवं ताओ चेव अट्ठ पडिवत्तीओ णेयवाओ जाव वालग्गपोइया संठिया तावक्खेत्तसंठिई पण्णत्ता एगे एव माहंसु ।८। एगे पुण एव माइंसुता जस्संठिए जंबुद्दीवे दीवे तस्संठिया तावक्खेत्तसंठिई पण्णत्ता, एगे एवमासु ।९। एगे पुण एवमाइंसु-ता जस्संठिए भारहे वासे तस्संठिया तावक्खेत्तसंठिई पण्णत्ता
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy