SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. २-२सू१ सूर्यस्य मण्डलात् मण्डलान्तरसंचरणम् १११ कृतमण्डलं 'निवेढेइ' निर्वेष्टयति मुञ्चति, 'एबइयं च णं अद्ध' एतावती च खलु अद्धां यावत् एतावता कालेनेत्यर्थः 'पुरओ गच्छई' पुरतो द्वितीयमण्डलपर्यन्ते गच्छति तथा च 'पुरओ गच्छमाणे' पुरतो गच्छन् द्वितीयमण्डलपर्यन्तं प्राप्नुवन् 'मंडलकालं' मण्डलकालं मण्डला पान्तरालप्समयं 'न परिहवेइ' न परिभवति न हापयतीति, तथा च अधिकृतमण्डलस्य किल कर्णकलापूर्वकं निर्वेष्टितत्वात अपान्तरालकालोऽधिकृतमण्डलसम्बन्धिन्येवाहोरात्रेऽन्तर्भूतः, एवं च द्वितीयमण्डले सूर्यस्य संक्रमणे सति तद्गतकालस्य मनागपि हानिनस्यात् ततो यावता कालेनापान्तरालं गम्यते तावत्प्रमाणेन कालेन सूर्यः पुरतो गच्छति एवं च मण्डलकालं न हापयति-प्रसिद्धेन यावत्परिमितेन कालेन तन्मण्डलं परिसमाप्यं भवेत् तावत्परिमितेन कालेन तन्मण्डलं पूर्णतया समापयति न तु किश्चिन्मात्रापि मण्डलकालहानिर्भवति ततो जगद्विदितप्रतिनियताहोरात्रपरिमाणे न कोऽपि व्याघातः प्रसज्येत । 'तेसि णं' तेषां खलु द्वितीयानाम् अयं' अयं पूर्वप्रदर्शितः 'विसेसे' विशेषः गुणो वर्त्तते । पुनरस्यैव मतस्य समीचीनतां प्रदर्शयति-'तत्य' इत्यादि, तत्थ' तत्र 'जे ते एवमासु' ये ते एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति यत्'मंडलाओ मंडलं संकममाणे सरिए' मण्डलान्मण्डलं संक्रामन् सर्यः 'कण्णकलं निव्वेढेइ' कर्णकलां निर्वेष्ट यति इति, 'एएणं' एतेन द्वितीयप्रतिपत्तिवादिकथितेन ‘णएणं' नयेन - अभिप्रायेण अस्माकं मतेऽपि मण्डलान्मण्डलान्तरसंक्रमणं 'णेयव्वं' ज्ञातव्यम् किन्तु 'नो चेव गं' नैव खलु 'इयरेणं' इतरेण प्रथमप्रतिपत्तिवादिकथितेन, अन्यैर्वा कैश्चित् कथितेन नयेन । तत इदमेव मतं ज्ञातव्यम् इतरेमते दोषसद्भावेन अस्यैव मतस्य समीचीनत्वात् तीर्थकरसंमतत्वाञ्चेति ॥ ॥ इति द्वितीयस्य मूलप्राभृतस्य द्वितीयं प्रामृतप्राभृतं सम्पूर्णम् ॥२-२॥ द्वितीयस्य मामृतस्य तृतीयं प्राभृतमाभृतम् । तदेवमुक्तं द्वितीयमूलप्राभृतस्य द्वितीयं प्राभृतप्राभृतम् , अथ तृतीयमाह अस्यायमर्थाधिकारः- "मण्डले २ प्रतिमुहूत्तं सूर्यस्य गतिर्वक्तव्या" इत्येतद्विषयकं सूत्रमाह- 'ता केवइयं' इत्यादि । मूलम् ता केवइयं खेत्तं सरिए एगमेगेणं मुहुत्तेणं गच्छइ ? आहितेति वएज्जा । तत्थ खलु इमाओ चत्तारि पडिवत्तीओ पण्णत्ताओ, तं जहा- तत्थ एगे एवमाहंसु-ता छ छ जोयणसहस्साइं सरिए एगमेगेणं मुहुत्तेणं गच्छइ, एगे एवमाइंसु ॥१॥ एगे पुण एवमाहंस ता पंच पंच जोयणसहस्साइं सरिए एगमेगेणं मुहुत्तेणं गच्छइ, एगे एव
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy